________________
सूत्रकाण्डानुक्रमणिका. ___ परिभाषासूत्रकाण्डेभ्योऽनन्तरं भृगूणां गोत्रप्रवरतत्संख्योपदेशपराणि सूत्रकाण्डान्युपदिष्टानि । ते वत्सा बिदा आष्टिषेणा यस्काश्शुनका मित्रयुवा वैन्या इत्येवमाद्या गोत्रगणा उपदिष्टाः । प्रतिगणं च प्रवरास्तत्सङ्ख्याश्योपदिष्टाः । वत्साष्टिषेणबिदानां त्रयाणां गणानां परस्परं स्वेस्वे गणे चाविवाहश्चोपदिष्टः । यस्कादीनां वैन्यान्तानां स्वस्वं गणं वर्जयित्वा परस्परं च पूर्वोक्तैः वक्ष्यमाणैश्च सर्वैस्सह विवाह उपदिष्टः ॥
भृगुसूत्रफाण्डेभ्योऽनन्तरं आङ्गिरसानां गोत्रप्रवरोपदेशपराणि सूत्रकाण्डानि त्रिविधान्युपदिष्टानि-गौतमानां गोत्रप्रवरोपदेशपराणि सूत्राणि, तदनन्तरं भरद्वाजगोत्रप्रवरोपदेशपराणि सूत्रकाण्डानि, तदनन्तरं केवलाङ्गिरसानां प्रवरोपदेशपराणि काण्डानि । तत्र गौतमसूत्रकाण्डेप्वायास्या गौतमा औचथ्या गौतमा औशिजा गौतमा राहूगणा गौतमाः सोमराजकयो गौतमा वामदेवा गौतमा बृहदुक्था गौतमा इति बहुभेदा गौतमगणाः । प्रतिगणं च प्रवरास्तत्सङ्ग्याश्योपदिष्टाः । गौतमानां सर्वेषामविवाहश्वोपदिष्टः । गौतमसूत्रकाण्डेभ्योनन्तरं भरद्वाजगोत्रसूत्रकाण्डानि । तेषु च केवलभरद्वाजाः शुङ्गशैशिरयो द्वयामुष्यायणाः ऋक्षाः कपयो गर्गा इत्येवमादयो भरद्वाजगणाः । प्रतिगणं च प्रवरास्तत्सङयाश्चोपदिष्टाः । भरद्वाजगणानां सर्वेषां परस्परमविवाहश्योपदिष्टः । भरद्वाजगणेभ्योनन्तरं केवलाङ्गिरसानां प्रवरोपदेशपराणि सूत्रकाण्डान्युपदिष्टानि । तेषु च हरितकुत्सकण्वरथीतरमुद्गलसंकृतिविष्णुवृद्धादयो गणाः । प्रतिगणं च प्रवरास्तत्सक याश्योपदिष्टाः । तेषु च हरितकुत्सानां परस्परमविवाहः । कण्वादीनां परस्परं विवाहश्योपदिष्टः ॥