________________
अभिनवमाधवीयः.
३३३ विश्वामित्रैर्भरद्वाजैस्तजानां तेन नान्वयः ॥३९॥ कपिलानां भरद्वाजैः विश्वामित्रैश्च नान्वयः ।
भरद्वाजगोत्रोद्भवेन शुङ्गाख्येन सुनिना विश्वामित्रगोत्रोद्भवस्य कतमुनिसुतस्य शशिराख्यस्य मुनेः भार्यायां तन्नियोगेनोत्पादितः शुङ्गस्य शैशिरेश्च सुतत्वात् द्वयामुष्यायणत्वेन शौङ्गशैशिरिरिति संज्ञामलभत । अयं शौङ्गशैशिरिः भरद्वाजसन्तानत्वात् विश्वामित्रसन्तानत्वाच्च भरद्वाजगोत्रो विश्वामित्रगो. त्रश्च द्विगोत्रो भवति । ततस्तजानां शौङ्गशैशिरिजातानां विश्वामित्रर्भरद्वाजैश्च न विवाहः । तथा च याज्ञवल्क्यः
अपुत्रेण परक्षेत्रे नियोगोत्पादितस्सुतः। उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ॥
ततस्तत्सततः सर्वस्या अपि विश्वामित्रभारद्वाजैनन्वि. यः । द्वयामुष्यायणसन्तातत्वात्तस्य शौङ्गशैशिरेस्तत्सन्तानस्य च आङ्गिरसबार्हस्पत्यभारद्वाजकात्याक्षीलेति पञ्चार्षेयः प्रवरः । उत्पादकस्य शुङ्गस्य प्रवरे त्रयः क्षेत्रिणशशिरेछौ एवमुभयमपि संयोज्य प्रवरणात् । यद्वा-क्षेत्रिणस्त्रयः उत्पादकस्य द्वौ एवं पञ्चार्षेयः प्रवरः । यद्वा--उत्पादकस्य द्वौ क्षत्रिण एकं च सं योज्य घ्यायः । उत्पादकस्यैक क्षेत्रिणो द्वौ संयोज्य घ्या. र्षेयः प्रवरः कार्यः । तथा च सूत्रम्-'अथैते द्विप्रवचना यथैतच्छौहुशैशिरयस्तेषामुभयतः प्रवृणीतैकमितरतो द्वावितरतो छौ वेतरतस्त्रीनितर.तः' इति । अथ अष्टादशगणस्थशुङ्गस्य गोत्रप्रवरनिर्णयानन्तरं एते वक्ष्यमाणाः द्विप्रवरवचना यामुष्यायणा भवन्ति । यथा शौङ्गशैशिरयः । शौशैशिरिग्रहणं प्रदर्शनार्थम् । वामरथ्यादयो जातुकादयो लोगाश्यादयोऽहर्वसिष्ठाः निशिकश्यपादयश्च व्यामुष्यायणाः ज्ञेयाः । तेषां प्रवरप्र