________________
२३२
गोत्रप्रवरनिर्णयः. एते गौतमसंज्ञास्युः भिन्नप्रवरजा अपि । समानप्रवरत्वेन व्यवहारार्हतां गताः ॥ मिथो विवाहं नार्हन्ति समानप्रवरा यतः । इति वैदिकमार्गप्रतिष्ठानिष्ठवसिष्ठान्वयाभिनवमाधवाचा
योद्धृतगात्रप्रवरानर्णये तृतीयं प्रकरणम्.
भारद्वाजा अथो गर्गाःतथा रोक्षायणा इति ॥३७॥ भरद्वाजास्ततस्तेषां न विवाहः परस्परम् ।
रोक्षायणशुङ्गप्रभृतीनां आङ्गिरसबार्हस्पत्यभारद्वाजेति व्याःयप्रवरः । गर्गाणां आङ्गिरसवार्हस्पत्यभारद्वाजगार्ग्यशैन्येति पञ्चा
यो बा, आङ्गिरसगार्ग्यशैन्येति त्र्यायो वा प्रवरः । रौक्षायणानां आशिरसवार्हस्पत्यभारद्वाजवान्दनमातवचसेति पञ्चा
यः प्रवरः । अत्र गोत्रकर्तुर्भरद्वाजस्य त्रिष्वपि प्रवरष्वनुवृत्तेः 'एक एव ऋषिर्यावत्' इति परिभाषया समानगोत्रत्वं पञ्चाययोर्गर्गरौक्षायणयोः अङ्गिरोभरद्वाजबृहस्पतीनां त्रयाणामनुवृत्तेः समानमुनिभूयस्त्वेन गोत्रकर्तुर्भरद्वाजस्यानुवृत्तेश्च समानप्रवरत्वम् । गणां ध्यायपक्षेत्रीयमाणतया भरद्वाजानुवृत्तेः गोत्रकर्तृत्वात् समानगोलत्वम् । आपस्तम्बमतेऽपि भारद्वाजगायेश्यैन्यति व्यायत्वेन भरद्वाजानुवृत्तेस्त्रयाणामपि प्रकाराणां समानगोत्रत्वात् समानप्रवरत्वाच । 'भरद्वाजानां सर्वेषामपि अविवाहः' इति बोधायनमुनिना निरूपेतत्वात् स्वस्वप्रवरैरितराभ्यां च न विवाहः ॥ भारद्वाजेन शुङ्गेन विश्वामित्रस्य शैशिरेः ॥३८॥ क्षेत्रजातो द्विगोत्रर्षिः प्रोच्यते शौङ्गौशिरिः ।