________________
आपस्तम्बप्रवरखण्डम्.
व्यारेयमु हैके आगस्त्यदाय॑च्युतध्मवाहेति । इध्मवाहवदृढच्युतवदगस्त्यवदिति ॥ १३ ॥
अथ क्षत्रियाणां यद्यह सार्ष प्रवृणीरन् एक एवैषां प्रवरः
॥१४॥ __ अथ क्षत्रियाणां गोत्राणि । अथ क्षत्रियाणां व्यायप्रवरो भवति ॥ अहति विनिग्रहार्थः ॥ यदि सर्वे क्षत्रिया एकार्षेयं प्रवरं प्रवृणोरन् सार्ष सहायण एक एवैषां प्रवरः । अनेन ज्ञायते पृथगार्षया अपि क्षत्रियास्सन्तीति ॥ ॥१३-१४॥
मानवैडपौरूरवसेति होता । पुरूरवोवदिडवन्मनुवदित्यध्वर्युः ॥ अथ येषां मन्त्रकृतो न स्युः सपुरोहितप्रवरास्ते प्रवृणीरन् । अथ येषां स्युरपुरोहितप्रवरास्ते
॥१५॥ अथ येषां क्षत्रियाणां मन्त्रकृतस्स्युः भवन्तीत्यर्थः ॥ १५ ॥ पुरोहितप्रवरानेव ते प्रवृणीरन् ॥ १६ ॥ आत्मीयानेव प्रवरान् प्रवृणीरन्नित्यर्थः ॥१६॥ सपुरोहितप्रवरास्त्वेव न्यायेन ॥१७॥
तुशब्दो विशेषणार्थः एवशब्दोऽवधारणार्थः । अयमर्थःक्षत्रियाणां विशेषः । पुरोहितप्रवरा एव ते भवितुमर्हन्ति । न्यायेन सर्वेषां पुरोहितस्य विद्यमानत्वात् आत्मनः कर्मण्यनधि. कारात् पुरोहितप्रधाना एव ते भावतुमर्हन्ति इति ॥१७॥