________________
३१६
माण्यवतं.
एकार्षेया वासिष्ठा अन्यत्र पराशरेभ्यः ॥ १० ॥
एकायास्सर्वे वसिष्ठा भवन्ति ॥ अन्यत्रापमन्यु कुण्डिनपराशरेभ्य इति हिरण्यकेशिमतिः उपमन्यून कुण्डिनान् पराश'रान्वर्जयित्वेत्यर्थः
॥ १० ॥
वासिष्ठेति होता वसिष्ठवदित्यध्वर्युः
119911
प्रवृणीत इति शेषः । किमर्थमुपमन्युप्रभृतीनां प्रतिषेधः क्रियते त्र्यार्षेयवत् सिद्धमनेकार्षेयत्वम् । सत्यं सिद्धम् । नियमार्थं एतेभ्योऽन्येषां तद्वैकल्पिकमिति । तेन जातुकणिकानां वैकल्पिकत्र्यार्षेयसम्बन्धो न तु सर्वेषामेव व्यायम हैक इत्ययं प्रवर उक्तो नोपमन्यूनां पराशराणां कुण्डिनानां च । प्रवरान्तरमेव वासिष्ठेन्द्रप्रमदाभरद्वसध्येति आभरद्वसुवदिन्द्रप्रमदवद्व
सिष्ठवदिति
॥ ११ ॥
अथ पराशराणां त्र्यार्षेयः वासिष्ठशाक्त्यपाराशर्येति । पराशरवच्छक्तिवद्वसिष्ठवदिति ॥ अथ कुण्डिनानां व्यार्षेयो वासिष्ठमैत्रावरुणकौण्डिन्येति । कुण्डिनवन्मित्रावरुणवसिष्ठवदिति ॥ अथ सङ्घतिपूतिमाषाणां त्र्यार्षेयश्शाक्त्य साङ्कृत्य गौरिवीतेति । गुरिवीतवत्सङ्गतिवच्छक्तिवदिति ॥ अथागस्तीनामेकार्षेयः । आगस्त्येति होता । अगस्त्यवादित्यध्वर्युः
॥ १२ ॥
प्रवृणीत इति शेषः
॥१२॥