________________
आश्वलायनचरकाण्ड म्. गोतमानां आङ्गिरसायास्यगौतमेति । उचथ्या. नां आङ्गिरसौचथ्यगौतमेति । रहूगणानां आङ्गिरसराहूगण्यगौतमेति । सोमराजकानां आङ्गिरससौमराज्यगौतमेति । वामदेवानां आङ्गिरसवामदेव्यगौतमेति । बृहदुक्थानां आङ्गिरसबाहदुक्थगौतमेति । पृषदश्वानां आङ्गिरसपार्षदश्ववैरूपेति । अटादंष्ट्र हैके ब्रुवते तीत्याङ्गिरसं अष्टादंष्ट्रपार्षदश्ववैरूपेति ॥
॥॥ आङ्गिरसाष्टादंष्ट्रयोर्विकल्पः । अतीत्य त्यक्त्वेत्यर्थः ॥ ॥१॥ ऋक्षाणां आङ्गिरलबार्हस्पत्यभारद्वाजवान्दनमातवचसेति ॥
॥२॥ अयं पञ्चायः प्रवरः ॥
॥२॥ कक्षीवतां आङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति॥
॥३॥ अयमपि पञ्चाय एव ॥ दीर्घतमसा आङ्गिरसौचथ्यदैर्घतमसेति ॥४॥ .... अयं व्यायः । अयास्यौचथ्यरहगणसोमराजकिवामदेवबृहदुक्थकक्षीपदीर्घतमस इत्येते गौतमाः । उचथ्यशब्दसमन्वयादीर्घतमसां गौतमत्वमस्त्येव । गौतमानां सर्वेषामविवाहः । 'पृषदश्वा रथोतरसश्च' इति स्मरन्ति । एतत्पातिन ऋक्षाः पुनर्भारद्वाजाः ॥