________________
आश्वलायनप्रवरकाण्डम्.
२९१
मदनाः वत्साः वयमिति स्मरन्ति तेषां पञ्चार्षेयः प्रवरो भवति, भार्गवच्यावनानवानौर्वजामदग्नेति ॥
॥ ६ ॥
अथ हाजामदग्न्नानां भार्गवच्यावनाप्नवानेति ॥
ये तु वयमजामदग्ना वत्सा इति स्मरन्ति तेषां त्रयार्षेय: प्रवरो भवति, भार्गवच्यावनानवानेति । एतेषामजामदमत्वादौर्वजामदनशब्दौ न भवतः । अत एव तौ शब्दौ जामदग्न्नत्वप्रयुक्ती । द्विप्रकाराणां वत्सानां परस्परमविवाहः त्रयार्षेयसन्निपातात् । एतदुक्तं भगवता बोधायनेन “त्रयार्षेयाणामविवाहः" इति ॥
॥ ७ ॥
आष्टिषेणानां भार्गवच्यावनाप्रवानार्ष्टिषेणानू
पेति ॥
॥ ८ ॥
अयमपि पञ्चार्षेयः प्रवरः ॥
॥ ८ ॥
बिदानां भार्गवच्यावनानवानौर्ववैदेति ॥ ९ ॥
अयमपि पञ्चा एव । बिदानामोर्वशब्दसमन्वयाज्जमदगोत्रत्वमप्यस्ति । वत्सानां विदानामार्ष्टिषेणानां च कचिहपिसंनिपातात् क्वचित्सगोत्रत्वाच्च परस्परमविवाहः । सर्वेषु च समानप्रवरत्वादविवाहः । सर्वत्र चैवं समानधर्मेषु ॥ ॥ ९ ॥
recarधौलमौन मौकशार्कराक्षिसा हिंसावर्णिशालङ्कायन जैमिनिदैवन्त्यायनानां भार्गववैतहव्यसावेतसेति ॥
119 011
अयं गणः त्र्यार्षेयः
यस्कादीनां दशानां परस्परमविधा
हः । प्रवरेषु कचिच्छास्त्रान्तरवशात् पदविपर्यासो वर्णविपर्या
J