________________
२९०
वृत्तियुतं. नुवाद इति वर्णयन्ति । इमामेव श्रुतिमुपन्यस्य न्यायविद्भिरयमेवार्थो वर्णितः 'अन्यायस्य हामं स्यादधिकारात्' इति । पूर्वोक्तश्रुत्यनुसारेणान्यायाणामप्यधिकारोऽस्तीति कल्पकाराणां सूत्रकाराणां च प्रवृत्तिरिति सैवानुस्मृताऽस्माभिः । तत्र ये आत्मीया ऋषयस्तेषां ये मम्त्रकृतस्ते प्रोक्तसङ्ख्या बरीतव्या इत्येतावन्मानं श्रुतितोऽवगतम् । तत्रैते आत्मीयाः तेषामेते मन्त्रकृत इति शाने न श्रुतिःस्मृतिरेवात्र शरणम् । तत्र एतावदेव लौकिकानां स्मरणं दृश्यते वयं वत्साः वयं विदाः वयमायास्या वयं रथीतराः वयं कन्वाः वयं गविष्ठिराः धयं कर्षणाः बयं कुण्डिनाः वयं गर्गाः इति नास्माकमेते श्रूयन्ते मन्त्रकृतो मन्त्रकृतः इंति स्मरन्ति । अपि च व्यायास्त्र्यायाः पञ्चाया इति च स्मरन्ति । अपि चास्माकसङ्गिरोमुख्यः प्रबरोऽपादंष्ट्रमुखो वेति च स्मरन्ति । अथ चैतेषां ज्ञानस्य स्मरणादन्यत् प्रमाणं ना. स्ति । आर्षेषवरणविध्यपेक्षितं चैतज्ज्ञानम् । एवं चेत् कल्पसूत्राणां वंशनामधेयभूतमित्रयुवादिविषया श्रुतिलाके उपजीव्या । उद्देशेनास्यत एतावन्तः अस्यैको द्वावस्था पञ्चास्य प्रयोऽस्य प्रयो वा पञ्च वाऽस्य एको वा त्रयो वा पञ्च वा इत्यस्यायं मुखतः पञ्चैवेत्येवमादेपदार्थविषयत्वादिकल्पानां श्रुतिमागच्छन्तोऽयं प्रभ्रंशपरिहारार्थ स्वेस्थे कल्पे सूत्रेण निरुन्धन्ति । प्रवरादिस्वीयसंज्ञाया आपत् प्रवरानुक्रमस्य प्रयोजनमित्यवगन्तव्यम् ॥
इदानी प्रवरा अनुक्रम्यन्ते
जाममा वत्सास्तेषां पञ्चार्षेयो भार्गवघ्यावनाप्नवानौर्वजामदग्नोति ॥
॥६॥ द्विविधा वत्सा जामदग्ना अजामदग्नाश्च । तत्र ये जा*कल्पानामित्यस्य स्थामे कालाबामित्वेकस्मिन् पाल: प्रामादिकः, ।