________________
गर्गभरद्वाजकुलविवाहविचार,
१९१ तद्रमनिरासायैव 'भरद्वाजमु हैकेऽङ्गिरसस्स्थाने' इति भारद्वाजघटितमेव प्रवरं प्रावोचत् भगवान् सूत्रकारः । कथमन्यथा गणान्तरानुप्रविष्टस्य -भरद्वाजघटितप्रवरप्रकारः प्रामाणिकस्स्यात् । एतेन--सूत्रकारेण 'एके' इति पक्षभेदप्रतिपादनेन स्वानभिमतत्वद्योतनादेतत्सूत्रानुसारिणामापस्तम्बीयानामस्माकं भरद्वानघटितपक्षान्तरप्रवरो नापराद्वयतीति केषां चित्प्रलपितमप्यपास्तम् । एतस्य भारद्वाजगणप्रवेशांशे सूत्रकारस्यानभिमत्यभावात् । किं तु भारद्वाजस्याप्यङ्गिरोगणानुप्रविष्टत्वेन तद्धेतोरिति न्यायेन अङ्गिरोघटितप्रवरत्यैव युक्तत्वं, न तु तद्व्याप्यभारद्वाजघटितप्रवरस्येत्यत्रैव तात्पर्यात् । एतत्सूत्रे सर्वत्र स्वगणानुप्रविष्टैरेव ऋषिभिः स्वस्वगणानुप्रविष्टानां प्रवरनियमदर्शनेन त्रिप्रवरस्य सर्वथा भारद्वाजगणाननुप्रविष्टत्वे आपाततोपि पक्षान्तरानुत्थानात् । अत एव हरितगणऋषिप्रवरप्रस्तावे विरूपगणऋषिप्रवरप्रस्तावे मुद्गलगणऋषिप्रवरप्रस्तावे च ‘आङ्गिरसाम्बरीषयौवनाश्वेति । मान्धातारम् हैकेऽङ्गिरसस्थाने' इति, आङ्गिरसवैरूपपार्षदश्वति अष्टादंष्ट्रमु हैकेऽङ्गि. रसस्स्थाने' इति, 'आङ्गिरसभा→श्वमौद्गल्येति । त्रिक्षुमु हैकेङ्गिरसस्स्थाने तार्यभार्ग्यश्वमौद्गल्येति' स्वस्वगणाननुप्रविष्टैर्मान्धात्रष्टादंष्ट्रत्रिक्षुभिः । प्रवरप्रतिपादनं तत्रतत्र सङ्गच्छते । एवं चैकजातीयपूर्वोत्तरग्रन्थसन्दर्भस्य भावैकरूप्यावश्यंभावेन मान्धात्रादेरिव भरद्वाजस्यापि गणपित्वावश्यकतया भवदुक्तव्यायगाय॑स्य सर्वथा भारद्वाजगणान्तर्भाव एवेति । अत एवैतत्सूत्रानुसारिणा सार्वभौमेन दशनिर्णये प्रवरनिर्णयप्रकरणे भारद्वाजगणाभिधानावसरे गार्ग्यसामान्यस्यैव अनुप्रवेशः कृतः, न तु विशेषोभिहितः। स्वतन्त्रकपिगणे च न गार्यो निवेशितः, किन्तु 'कप्यङ्गिरोमहय्योरुक्षय्याश्चत्वारः परस्परं नोडहेयुः' इत्येवाभिहितम् । सूत्रकारस्य तु क्रमविवक्षायामेदंपर्याभावेन सूत्रान्तरे