________________
१९०
गर्गभरद्वाजकुलविवाहविचारः. र्ण्यनुवृत्तावपि त्रषिद्वयानुवृत्तिलक्षणवाधकविरहेण न तयोविवाहनिषेधः पदमादधाति । आङ्गिरसबार्हस्पत्यभारद्वाजगार्ग्यशैन्येति पञ्चप्रवरसंवलितस्य गार्ग्यस्य तु पञ्चानामिति निषेधः सर्वधा दुस्समाधेयः । एतेन-'भारद्वाजस्तु' इति वचनेन तयोविवाहप्रतिपेधमादधानः परः प्रत्युक्तः, 'भारद्वाजस्तु' इति वचनस्य समानप्रवरत्वपर्यवसानहारैव निषेधबोधकत्वावश्यंभावन पञ्चोपैयगार्ग्य एव तत्पर्यवसानेन तद्वचनस्य सामान्यविषयस्यापि पञ्चायगार्ग्यविशेषपरत्वादिति ॥
अत्र निष्कर्षानुसारिणः प्रवदन्ति-यदिदमुक्तं 'त्रिप्रवरगार्योणां समानप्रवरत्वादिदोषलेशविरहेण भवत्येव भारद्वाजस्तेषां विवाहः' इति तदिदं धर्मशास्त्रापरिशीलनमूलं अज्ञानविजृम्भितम् । तथाहि-विवाहप्रतिषेधहेतवो दोषाः समानप्रवरत्वसगणत्वादयः । समानप्रवरत्वं च-स्वप्रवरघटकऋषिद्वयादिघटितप्रवरकत्वम् । सगणत्वं तु–एकस्वामिकसमुदायघटकत्वम् । एवं च त्रिप्रवरगाय॑स्य भारद्वाजैस्समानप्रवरत्वविरहेऽपि सगणत्वं दुर्निवारम्, सर्वे पामेव गार्याणां भारद्वाजगणान्तर्गतत्वात् । न च त्रिप्रवरगा.
य॑स्य सर्वथैव भारद्वाजगणानन्तर्भावेन कपिगणानुप्रवेशेन च कुतस्सगणत्वदोषशङ्केति वाच्यम् । भारद्वाजगणान्तःप्रविष्टगार्यातिरिक्तस्य कपिगणान्तर्गतगार्ग्यस्य सत्त्वे प्रमाणाभावात् । अन्यथा हरितादिगणानुप्रवेश एव किं नाभ्युपगम्येत । नन्वापस्तम्बेन ‘प्रवरान् व्याख्यास्यामः' इत्युपक्रम्य भृगुगणाभिधानानन्तरं अङ्गिरोगणाभिधानावसरे स्वतन्त्रकपिमभिधाय 'अथ गर्गाणां त्र्याय आङ्गिरसगार्ग्यशैन्येति । शिनिवगर्गवदगिरोवत्' इति त्रिप्रवरस्य गार्यस्याभिधानात् यदनन्तरन्यायेन तस्य स्वतन्त्रकपिगणानुप्रवेशमीक्षामहे, इति चेत्तथाऽपि स भारद्वाजगणान्तर्भूत इत्येव वक्तव्योर्थः । अत एवै.