________________
१८६
प्रवरदर्पणम्. इत्यत्र पितृशब्देन दत्तकस्य जनक एवोक्तः । अन्यथा पितृशब्दवैयर्थ्यात् ।
ये तु-यथा क्षेत्रन अत्रोत्पन्नः पुत्र आवयोरिति संमत्या ड्यामुष्यायणः, अन्यथा क्षेत्रिण एव । तथा दत्तकोप्यावयोरिति भाषया दत्तश्चत् द्वयामुष्यायणः, अन्यथा ग्रहीतुरेव । तत्राद्यस्य गोत्रद्वयं, अन्त्यस्य तु ग्रहीतुरेव गोत्रं वयं, न जनकस्य पूर्वोक्तमनुवचनादित्याहुः । तत्र मूलं त एव प्रष्टव्याः । दानस्यानिष्पत्तेः । किंच पुत्रान्तरसत्त्वे संवादो व्यर्थः । एकपुत्रस्य च 'न त्वेवैकं पुत्रं दद्यात्' इति वसिष्ठनिषेधादेव न दानं, स हि दृष्टार्थः । सम्प्रतिपत्तौ च दातृपुत्रत्वानपगमानिषेधो व्यर्थः । अदृष्टार्थत्वे तु सपिण्डायां भार्यात्ववत् दत्तकवं नोत्पद्यत इति यत्किञ्चिदेतत् । एवं प्रवरो वर्जनीयः । यत्तु कश्चित् जनकप्रवरस्यानिषेधमाह, तदसत् ? विवाहे गोत्रनिषेधो न तत्प्रयुक्तः ॥
इति द्विवंश्याः.
अथ क्षत्रियविशाम्-तत्रापस्तम्बाद्यैः पक्षद्वयमुक्तम् । मानवैलपौरूरवसेति प्रवरः क्षत्रियाणां मनुगोत्रं, वैश्यानां तु भालन्दनवात्समाङ्कीलेति प्रवरः भलन्दनगोत्रमिति. वात्सप्रीत्येव वा । अन्यस्तु पुरोहितगोत्रप्रवरावेव तयोरिति । अयमेव विज्ञानेश्वरानुमतः सिद्धान्तः 'सपुरोहितप्रवरास्त्वेवं न्यायेन' इत्यापस्तम्बोतेश्च । न्यायेनेति । सर्वेषां मनुगोत्रत्वेन सगोत्रत्वाद्विवाहाप्रसङ्गः, मनोः ऋष्य[नान्तर्गतेः गोत्रत्वाभावादित्यर्थः । तस्मात् क्षत्रियवैश्ययोः पुरोहितगोत्रप्रवरौ वाविति सिद्धम् ॥