________________
प्रवरदर्पणम्
१८५ दाभावे बीजिनो मा भूत् क्षेत्रिण उचथ्यस्य तु सगोत्रः स्यात् गवादौ पाण्डवादौ च तथा दर्शनात् बोधायनोक्तेः सामान्यत्वेन तद्भिन्नपरत्वासवर्गौतमैरविवाह इति । इष्टापत्तौ मूकत्वापत्तेः । अतोत्रिवंशत्वेऽपि विश्वामित्रवद्गोत्रान्तरत्वस्मृतेरविवाह इति तत्त्वम् ।।
। एवं दत्तकपुत्रकृत्रिमस्वयंदत्तपुत्रिकादीनामुत्पादकपालकयोः पित्रोः गोत्राभ्यां सहाविवाहो द्रष्टव्यः तुल्यन्यायत्वादिति प्रवरमअर्यामुक्तम्, न तु नियोगोत्पादितड्यामुष्यायणमात्रस्येदं गोत्रद्वयवजनमिति भ्रमितव्यम्, मञ्जर्यां दत्तक्रीतादीनामप्युदाहृतत्वात् तेषां च तत्वाभावात् । प्रयोगपारिजातेऽपि सङ्गहे
द्वयामुप्यायणका ये च दत्तकक्रीतकादयः ।
गोत्रद्वयेऽप्यनुबाह्याः शौङ्गशैशिरयो यथा ॥ इति । अत एव नारायणवृत्तौ दत्तकादीनां 'उर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्च' इति गौतमवचनेन बीजकुले विवाहप्राप्तावपि गोत्रत्वान्निषेधः शौङ्गशैशिरिग्रहणस्य प्रदर्शनार्थत्वादित्युक्तम् । प्रवरमञ्जयाँ कात्यायनोपि-अथ ये दत्तक्रयक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहणादाणेया जातास्ते द्वयामुष्यायणा भवन्ति यथैते शौङ्गशैशिरयो यानि चान्यान्येवं समुत्पत्तीनि कुलानि भवन्तीति ।
यत्तुगोत्ररिक्थे जनयितुर्न भजेद्दत्तिमस्सुतः । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतस्स्वधा ॥
इति मनुवचनं तच्छ्राद्धादिविषयम् । उत्तरार्धे तथैवोक्तेः । अत एव स्मृतिचन्द्रिकायां 'असपिण्डा च या मातुरसगोत्रा च या पितुः'।
24