________________
१७१
प्रवरदर्पणम्. धनञ्जयः कारीषिः आश्ववतः तारक्यः सैन्धवायनः उत्साक्षः महोक्षति बोधायनः । कर्मधिः परितः पार्थिवः पाणिनिः मदकः बन्धुलः चैत्रेयः इति मात्स्ये ॥
एषां वैश्वामित्रमाधुच्छन्दसाघमर्षणेति प्रवरा इति मात्स्ये उक्तम् । वैश्वामित्रमाधुच्छन्दसधानञ्जयेति सत्याषाढः ॥
अथ कताः-कतः सैरन्धः करम्भः वाजायनः साहितेयः कौकुल्यः पिण्डग्रीवः नारायणः नाराद्यः इति बोधायनोक्ताः ॥
इन्दुवरिः शौशिरिः नैकायनिः त्रैकायनिः ताायनः तार्यायनिः कात्यायनिः करीराम्भिः शालङ्कायनिः लावलिः मौजायनिः कतः इति लौगाक्षिमात्स्योक्ताः ॥
कश्चित्-तुङ्गायनिः कालिः वेदायनिः गोदायनिः मेदायनिः चोदायनिः वेनायनिः राणिः शतकेरीत्यप्याह ॥ एषां वैश्वामित्रकात्यात्कीलेति प्रवराः ॥
आश्वलायनेन त्वन्येऽपि गणा उक्ताः-रोहिणानां वैश्वामित्रमाधुच्छन्दसरौहिणेति । रेणूनां वैश्वामित्रगाधिनरैणवेति । वेणूनां वैश्वामित्रगाधिनवैणवेति । शालकायनः शालाक्षः रोहिताक्ष जहुः एषां वैश्वामित्रशालकायनकौशिकेति सिद्धान्तभाष्येऽपि धृताः ॥ ___ मात्स्ये त्वन्येऽपि-कामलायनः आश्मरथ्यः मधुलः कौशिकः घोटमुखः कामकायनिः पापायनिः नेता लाङ्गलिः एषामाश्मरथ्यानां वैश्वामित्राश्मरथ्यवाधुलेति । उदवेणुः कथकः औद्दालकिः रेणुः गाधिनः उदवासः आज्योहः रौत्थक इत्येके । ऐषां वैश्वामित्रगाधिनरैवणेति । प्रतिलोमाः सर्वे वा ॥