________________
११२
प्रवरमञ्जरी.
शाक्त्यपाराशयति । वसिष्ठवच्छक्तिवत्पराशरवत् ॥
इति लौगाक्षिपाठानुसारेण वसिष्ठगोत्रकाण्डमुदाहृतम्.
अध्वर्युक्रमविशेषज्ञापनार्थम्.
अथाश्वलायनोक्तं वसिष्ठगोत्रकाण्डमुदाहरिष्यामः -
वासिष्ठेति वसिष्ठानां येऽन्य उपमन्युपराशरकुण्डिनेभ्यः । उपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेति । पराशराणां वासिष्ठशाक्त्यपाराशर्येति । कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति ॥
इति आश्वलायनोक्तं वसिष्ठगोत्रकाण्डमुदाहृतम्
·
अग मत्स्यपुराणोक्तं वसिष्ठ गोत्रप्रवराध्यायमुदाहरिष्यामः -
मत्स्य उवाच
वसिष्ठवंशजान् विप्रान् निबोध गदतो मम । एकार्षेयस्तु प्रवरो वसिष्ठानां प्रकीर्तितः ॥ वसिष्ठा एव वासिष्ठा अवैवाह्मा वसिष्ठजैः । व्याघ्रपादा औपगवा वैष्णवास्सातुलायनाः ॥ कपिष्ठला औपलोमा अध्वला वनटाः कराः । गोपायनाथोवयश्च दासव्या अथ वाह्यकृत् ॥