________________
कश्यप काण्डम्...
एतानि सूत्रकाण्डानि यदर्थमृषयोब्रुवन् । विवाह गोत्रप्रवरान् तानर्थान्महे वयम् ॥
अत्रोक्तेषु विश्वामित्रगणेषु ये देवरातादयः परिगणिताः तेषां सर्वेषां परस्परमविवाहः; स्वेस्वे गणे तु सुतरामविवाहः समानप्रवरत्वात् ॥ इति व्याख्यातानि विश्वामित्रप्रवरकाण्डानि ॥ अत्र श्लोकः
यावतां प्रवरेष्वेको विश्वामित्रोनुवर्तते । न तावतां सगोत्रत्वाद्विवाहोस्ति परस्परम् ॥
इति पुरुषोत्तमपण्डितविरचितायां प्रवरमञ्जर्यां विश्वामित्रकाण्डं समाप्तम्.
९५.
अथेदानीं कश्यपगोत्रप्रवरकाण्डमुदाहरिष्यामः - अथ कश्यपगोत्राणामखण्डं काण्डमुच्यते । पिण्डितैः पण्डितैर्विद्यामण्डितैश्श्रूयतामिदम् ॥ अत्रादौ बोधायनोक्तं कश्यपगोत्रकाण्डमुदाहरिष्यामः -
कश्यपान् व्याख्यास्यामः । कश्यपाश्चाङ्गिरयो मठरा ऐतिशायना आभूत्या वैशिप्रा धूम्रायणाः सौम्या अययणास्त्रौववृक्षा राम्रायणाः पैन्धुकयः Maratयाः पाञ्चायनिकाः मेषान्तकिस्सामसयो माघसरा पयस्सौधवयस्सायम्या आसुरायणाश्छगव्यास्सौनद्यस्स्थौलकेशयोवार्धकय