________________
५
भरद्वाजकाण्डम एते तवोक्ताङ्गिरसस्त्रिधोक्ता
महानुभावा नप गोत्रकाराः। येषां तु नाम्ना परिकीर्तनेन
पापं समग्रं पुरुषो जहाति॥ इति मत्स्यपुराणे प्रवरानुकीर्तने त्रिविधानामगिरसां प्रवराध्यायो द्वितीयः ॥
इह मत्स्यपुराणोक्ते त्रिविधाङ्गिरसां प्रवरकाण्डे परिकीर्तितानां गोत्राणां मध्ये येषां प्रवरेषु गौतमः सप्तर्षिीयमाणतया सत्तया वाऽनुर्वतते तेषां परस्परमविवाहः, समानगोत्रत्वात्, “गौतमानां सर्वेषामेवाविवाहः” इति बोधायनवचनाच्च । तथा येषां गोत्रगणानां प्रवरेषु भरद्वाजः सप्तर्षिीयमाणतया सत्तया वाऽ नुवर्त ते तेषां परस्परमविवाहः; समानगोत्रत्वात्, “भरद्वाजानां सर्वेषामविवाहः” इति बोधायनवचनाचा ॥ इतरेषां सप्तर्षिबाह्यानां केवलाङ्गिरसां हरितकुत्सकण्वरथीतरपृषदश्वमुद्गलविष्णुवुद्धादीनां परस्परं विवाहः, सगोत्रत्वाभावात्, स्वेस्वे गणे चाविवाहः, समानप्रवरत्वादिति समुदायार्थः ॥
इति पुरषोत्तमपण्डितविरचितायां गोत्रप्रवरमार्या मत्स्यपुराणोक्तप्रवराध्याये त्रिविधाङ्गिरसां गोत्रप्रवरकाण्डमुदाहृत्य व्याख्यातम्.
*इंदं पञ्चम्यन्तं शृं-कोशे नास्ति.
अित्र चकारः शृं-कोशे नास्ति.