________________
33
प्रवरमञ्जरी.
ण्वानामाङ्गिरसाजमीढकाण्वेति । घोरमुहैके ब्रुवते अवकृष्याजमीडमाङ्गिरसघौरकाण्वेति । कपीनामाङ्गिरसामहय्यवौरुक्षयसेति । अथ य एते द्विप्रवचना यथैतच्छौङ्गशैशिरयो भरद्वाजाश्शौङ्गाः कतारशैशिरयस्तेषामुभयतः प्रवृणीतैकमितरतो द्वावितरतः द्वौ वेतरस्त्रीनितरतो न हि चतुर्णी प्रवरोस्ति न पञ्चानामतिप्रवरणम् | आङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कीलेति ॥
|| इत्याश्वलायनोक्तं भरद्वाजगोत्रकाण्डमुदाहृतम् ॥
अथ मत्स्यपुराणोक्तं त्रिविधमङ्गिरसां गोत्रप्रवरकाण्डमुदाहरि
ष्यामः
मत्स्य उवाच —
मरीचितनया राजन्त्सुरूपा नाम विश्रुता । भार्या साऽङ्गिरसो देवास्तस्याः पुत्रा दश स्मृताः॥ आत्मा ह्यायुर्मनो दक्षो दमः प्राणस्तथैव च । हविष्मांश्च गविष्ठश्च ऋतुस्सत्यश्च ते दश ॥ इत्येते ऽङ्गिरसो नाम देवा वै सामगायिनः । सुरूपा जनयामास ऋषीन्त्सर्वेश्वरानिमान् ॥
1 देवी तस्याः.
" हविष्मान्सहविष्यश्च.