SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ५८९ अस्यार्थः- पर-केवलम् । तिलानां तिलत्वं तावत् यावत् स्नेहा न गलन्ति, स्नेहे प्रनष्टे ते एव तिला भ्रष्ट्वा खला भवन्तीत्यर्थः । [ताउं] तावत् । अनेन "वत्"स्थाने उं ताउं । [जाउं] यावत् । 'आदेर्यो जः' (११२४५) यावत् → जावत् । अनेन "वत्"स्थाने उं जाउं । [जामहिं विसमी कज्ज-गई................] अस्यार्थः- यावज्जीवानां मध्ये विषमा कार्यगतिरायाति तावदास्तामितरो जनः, स्वजनोऽप्यन्तरं ददाति - पृष्ठि ददातीत्यर्थः । [जामहिं] यावत् । 'आदेर्यो जः' (१२२४५) यावत्० → जावत् । अनेन "वत्"स्थाने महिं । 'मोऽनुनासिको वो वा' (४।३९७) मस्याऽधो वः जामहि - जावहिं । [तामहिं] तावत् । अनेन "वत्"स्थाने महिं । 'मोऽनुनासिको वो वा' (४।३९७) मस्याऽधो वः तामहिं - तावहिं ॥४०६॥ वा यत्-तदोऽतोर्डेवडः ॥ ८।४।४०७ ॥ अपभ्रंशे यद्-तद्- इत्येतयोरत्वन्तयोर्यावत्तावतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥ जेवडु अंतरु रावण-रामहं तेवडु अंतरु पट्टण-गामहं ॥ पक्षे- जेत्तुलो । तेत्तुलो ॥ [वा यत्तदोऽतोर्डेवडः ] वा प्रथमा सि । यत्तद् षष्ठी ओस्(ङस्) । अत् षष्ठी ओस् । डेवड प्रथमा सि । [जेवडु अंतरु रावण-रामह..........] द्विपदम् । यावदन्तरं रावणरामयोः तावदन्तरं पत्तनग्रामयोरित्यर्थः । [जेवडु ] यावत् । अनेन वा "वत्"स्थाने डेवड० → एवड० इति । 'डित्यन्त्य०' (२।१२११४) आलुक् । 'लोकात्' (१।२३) येवड० । 'आर्यों जः' (११२४५) येवड. → जेवड० । प्रथमा सि । 'स्यमोरस्योत्' (४३३१) जेवड० → जेवडु० । [तेवडु ] तावत् । अनेन वा "वत्"स्थाने डेवड० → एवड० इति । 'डित्यन्त्य०' (२।१।११४) आलुक् । 'लोकात्' (१।१।३) तेवड० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) तेवड० → तेवडु० । पक्षे [जेत्तुलो] यावत् । ‘आदेर्यो ज:' (१।२४५) यावत् → जावत् । 'अतोर्डेत्तुलः' (४।४३५) अत्० → उत्तुल० → एत्तुल इति । 'डित्यन्त्य०' (२।१।११४) आव्लुक् जेत्तुलो । [तेत्तुलो] तावत् । 'अतोडैत्तुलः' (४।४३५) अत्० → डेत्तुल० → एत्तुल इति । 'डित्यन्त्य०' (२।१।११४) आव्लुक् तेत्तुलो ॥४०७॥ वेदं-किमोर्याऽऽदेः ॥ ८४४०८॥ अपभ्रंशे इदम्-किम् इत्येतयोरत्वन्तयोरियत्-कियतोर्यकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥ एवडु अंतरु । केवडु अंतरु । पक्षे-एत्तुलो । केत्तुलो ॥ . [ वेदं-किमोर्याऽऽदेः] वा प्रथमा सि । इदम्-किम् षष्ठी ओस् । याऽऽदि षष्ठी ङस् । [एवडु अंतरु] इयदन्तरम् । अनेन "यत्"स्थाने डेवड० → एवड० इति । 'डित्यन्त्य०' (२।१२११४) इलुक् । 'लोकात्' (१।११३) एवड० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) एवड० → एवडु० ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy