SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ५२८ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । न्य-योजः ॥८।४।३०५ ॥ पैशाच्यां न्य-ण्योः स्थाने जो भवति ॥ कञका । अभिमजू । पुज-कम्मो । पुजाहं ॥ [न्य-ण्योजः ] न्य-ण्य षष्ठी ओस् । ञ प्रथमा सि । [कञका] कन्यका । अनेन न्य० → ० कञका । [अभिमजू] अभिमन्यु । अनेन न्यु० → चु० अभिमञ्जू । [पुञ्ज-कम्मे ] पुण्य-कर्मा । अनेन ण्य० → ञ० । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२८९) द्वित्वं-मा० → म्मा० । वाऽऽप ए' (३।४१) म्मा० → म्मे० पुञ-कम्मे । [पुञआहं] पुण्याहम् । अनेन ण्या० → ञा० पुञाहं ॥३०५।। णो नः ॥ ८।४।३०६ ॥ पैशाच्यां णकारस्य नो भवति ॥ गुन-गन-युत्तो । गुनेन । [णो नः] ण् षष्ठी ङस् । न प्रथमा सि । [गुन-गन-युत्तो] गुण-गण-युक्त । प्रथमा सि । अनेन ण. → न० । 'क-ग-ट-ड०' (२७७) क्लु क् । 'अनादौ०' (२१८९) द्वित्वं-त० → त्त० । 'अत: सेर्डोः' (३।२) सि० → डो० → ओ० गुन-गन-युत्तो । [गुनेन] गुण । तृतीया टा । 'टा-आमोर्णः' (३।६) टा० → ण । 'टाण-शस्येत्' (३।१४) ण० → णे० । अनेन णे० → ने० - ण० → न० गुनेन ॥३०६।। त-दोस्तः ॥ ८।४।३०७ ॥ पैशाच्यां तकार-दकारयोस्तो भवति । तस्य - भगवती । पव्वती । सतं ॥ दस्य - मतन-परवसो । सतनं । तामोतरो । पत्तेसो । वतनकं । होतु । रमतु ॥ तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम् - तेन पताका । वेतिसो इत्याद्यपि सिद्धं भवति ॥ [त-दोस्त: ] त-द् षष्ठी ओस् । त प्रथमा सि । [भगवती] भगवती । अनेन तस्य तः - भगवती । [पव्वती ] पार्वती । 'हुस्वः संयोगे' (१८४) पा० → प० । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं- व० → व्व० । अनेन तस्य तः - पव्वती । [सतं] शत । प्रथमा सि । 'श-षोः सः' (४।३०९) श० → स० । अनेन तस्य तः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सतं । [मतन-परवसो] मदन-परवश । प्रथमा सि । अनेन द० → त० । 'श-षोः सः' (४।३०९) श० → स० । 'अतः से?:' (३।२) सि० → डो० → ओ० मतन-परवसो । [सतनं] सदनम् । अनेन द० → त० सतनं ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy