SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ५२३ हगे न एलिशाह कम्माह काली । 'भगदत्त-शोणिदाह कुम्भे । पक्षे- भीमशेणस्स पश्चादो हिण्डीअदि । 'हिडिम्बाए घडुक्कय-शोकेण उवशमदि । [अवर्णाद्वा डसो डाहः ] अवर्ण पञ्चमी ङसि । वा प्रथमा सि । ङस् षष्ठी ङस् । डाह प्रथमा सि । [हगे न एलिशाह कम्माह काली] अहम् । 'अहं-वयमोर्हगे' (४।३०१) इत्यनेन हगे आदेशः हगे। ईदृश । 'दृश: विवप्-टक्-सकः' (१११४२) रि० । 'एत्पीयूषा-ऽऽपीड-बिभीतक-कीदृशेदृशे' (१।१०५) ई० → ए० । 'र-सोर्ल-शौ' (४।२८८) रि० → लि० । अनेन वा ङसस्थाने डाह० → आह० इति । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् एलिशाह । कर्मन् । षष्ठी ङस् । 'सर्वत्र ल-व-रामवन्द्रे' (२।७९) लुक् । 'अनादौ०' (२।८९) द्वित्वं - म० → म्म० । अनेन वा ङस्स्थाने डाह० → आह० इति । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः कम्माह । कारी । 'र-सोल-शौ' (४।२८८) री० → ली. काली । अहं न ईदृशस्य कर्मण: कारी । [भगदत्तशोणिदाह कुम्भे] भगदत्तशब्दो निर्ग्रन्थेषु सांख्येषु च । शोणित । षष्ठी ङस् । अस्य कार्यम् । 'तो दोऽनादौ०' (४।२६०) त० → द० शोणिदाह । कुम्भ । प्रथमा सि । 'अत एत्सौ पुंसि०' (४।२८७) भ० → भे० कुम्भे । पक्षे [भीमशेणस्स पश्चादो हिण्डीअदि] भीमसेन । षष्ठी ङस् । 'र-सोल-शौ' (४।२८८) से० → शे० । 'नो णः' (१२२८) न० → ण । 'ङसः स्सः' (३।१०) ङस्० → स्स० भीमशेणस्स । पश्चात् । षष्ठी ङस्(पञ्चमी ङसि) । 'अन्त्यव्य०' (११११) तलुक् पश्चादो। 'हिडुङ् गतौ च' (७०४) हिड् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । वर्त० ते । 'त्यादीनामाद्य०' (३३१३९) ते० → इच् । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → ईअ० । 'अतो देश्च' (४।२७४) इच्० → दि० हिण्डीअदि । भीमसेनस्य पश्चात् हिण्ड्यते इत्यर्थः । [हिडिम्बाए घडुक्य-शोकेण उवशमदि] हिडिम्बा । षष्ठी ङस् । 'टा-ङस्-डेर०' (३।२९) ङस्० → ए० हिडिम्बाए । १. पुरुषः - पशीदन्तु भावमिश्शे । हगे ण ईदिशकम्मकाली। [अभि० शा० षष्ठेऽङ्के] प्रसीदन्तु भावमिश्राः । अहं नेदृशकर्मकारी । २. राक्षसी - अले लुहिलप्पिआ ! पूव्वशञ्चिअं तुमं वि जाणाशि जेव्व । णवशञ्चिअं शिणु दाव । भअदत्तशोणिएहिं कुम्भे शिन्धुलाअवशाहिं कुम्भे दुवे दुवदमच्छाहिवभूलिश्शवशोमदत्तबह्निअप्पमुहाणं णलिन्दाणं अण्णाणं वि पाकिदपुलिशाणं लुहिलमंशेहि पुलिदाई घडशदाइं अशक्खाइ शन्ति मे गेहे । [वे० सं० तृतीयेऽङ्के] अरे रुधिरप्रिय ! पूर्वसञ्चितं त्वमपि जानास्येव । नवसञ्चितं शृणु तावत् । भगदत्तशोणितौ कुम्भः सिन्धुराजवसाभिः कुम्भौ द्वौ द्रुपदमत्स्याधिपभूरिश्रवःसोमदत्तबाहीकप्रमुखाणां नरेन्द्राणामन्येषामपि प्राकृतपुरुषाणां रुधिरमांसौ पूरितानि घटशतान्यसंख्यानि सन्ति मे गेहे। ३. राक्षसी - लुहिलप्पिआ ! अज्जवि शामिणीए हिडिम्बादेवीए घडुक्कअशोए ण उपशमइ । [वे० सं० तृतीयेऽङ्के] रुधिरप्रिय ! अद्यापि स्वामिन्या हिडिम्बादेव्या घटोत्कचशोको नोपशाम्यति ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy