SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ५२२ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे। क्षस्य :कः ॥८।४।२९६ ॥ मागध्यामनादौ वर्तमानस्य क्षस्य को जिह्वामूलीयो भवति ॥ य के । ल कशे || अनादावित्येव - खयजलहला । क्षयजलधरा इत्यर्थः ॥ [क्षस्य कः] क्ष षष्ठी उस् । ४क प्रथमा सि । [यके] यक्ष । प्रथमा सि । अनेन क्षस्य क० । 'अत एत्सौ पुंसि मागध्याम्' (४।२८७) के । 'अन्त्यव्य०' (१।११) स्लुक् यम्के । [ल-कशे] राक्षस । प्रथमा सि । 'हस्व; संयोगे' (१९८४) रा० → र० । 'र-सोर्ल-शौ' (४।२८८) र० → ल० । अनेन क्षस्य -क० । 'र-सोर्ल-शौ' (४१२८८) स० → श० । 'अत एत्सौ पुंसि०' (४।२८७) श० → शे० । 'अन्त्यव्य०' (१।११) स्लुक् लकशे । [खयजलहला] क्षयजलधर । प्रथमा जस् । 'क्षः खः क्वचित्तु छ-झौ' (२२३) क्ष० → ख० । 'ख-घ-थ-धभाम्' (११८७) ध० → ह० । 'र-सोर्ल-शौ' (४।२८८) २० → ल० । 'जस्-शस्-ङसि-त्तो-दो-द्वामि दीर्घः' (३।१२) दीर्घः- ल० → ला० । 'जस्-शसोलुंक्' (३।४) जस्लुक् खयजलहला ॥२९६।। स्कः प्रेक्षा-ऽऽचक्षोः ॥ ८।४।२९७ ॥ मागध्यां प्रेक्षेराचक्षेश्च क्षस्य सकाराक्रान्तः को भवति ॥ जिह्वामूलीयापवादः ॥ पेस्कदि । आचस्कदि ॥ [स्कः प्रेक्षा-ऽऽचक्षोः] स्क प्रथमा सि । प्रेक्षा-ऽऽचक्ष षष्ठी ओस् । [पेस्कदि] प्रपूर्व० 'ईक्षि दर्शने' (८८२) ईक्ष् । वर्त० ते । 'सर्वत्र ल-व०' (२७९) लुक् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) पेक्षते । अनेन क्षस्य स्क० । 'त्यादीनामाद्य०' (३।१३९) ते० → इच्० । 'अतो देश्च' (४।२७४) इच्० → दि० पेस्कदि । [आचस्कदि] आपूर्व० 'चक्षिक व्यक्तायां वाचि' (११२२) चश् । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) आचक्षते । अनेन क्षस्य स्क० । 'त्यादीनामाद्य०' (३।१३९) ते० → इच् । 'अतो देश्च' (४।२७४) इच्० → दि० आचस्कदि ॥२९७॥ तिष्ठश्चिष्ठः ॥ ८।४।२९८ ॥ मागध्यां स्थाधातोर्यस्तिष्ठ इत्यादेशस्तस्य चिष्ठ इत्यादेशो भवति ॥ चिष्ठदि ॥ [तिष्ठश्चिष्ठः] तिष्ठ षष्ठी ङस् । चिष्ठ प्रथमा सि । [चिष्ठदि] स्था । वर्त० तिव् । 'श्रोति-कृवु-धिवु०' (४।२।१०८) इत्यादिना तिष्ठ । अनेन तिष्ठ० → चिष्ठ० । 'त्यादीनामाद्य०' (३.१३९) तिव्० → इच् । 'अतो देश्च' (४।२७४) इच्० → दि० चिष्ठदि ॥२९८।। अवर्णाद्वा डसो डाहः ॥८।४।२९९ ॥ . मागध्यामवर्णात्परस्य ङसो डिद् आह इत्यादेशो वा भवति ॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy