________________
भाष्यम् सू०११
परिहारस्थानसेविनः प्रायश्चित्तदानविधिः २५
प्रस्थापना, तया प्रस्थापनया प्रस्थापितः प्रायश्चित्तकरणार्थं प्रस्थापितः सम्यक् प्रवत्तितः । 'निव्विसमाणे ' निर्विशमानः प्रायश्चित्तवहनानन्तरं ततो निस्सरन् प्रतिसेवको यदि पुनरपि प्रमादतो विषयक नायादिभिर्वा पडि सेवइ प्रतिसेवते ततस्तस्यां प्रतिसेवनायां यत् प्रायश्चित्तं सेवते 'विकसि तत्थेव आरुहियव्वे सिया' तदपि कृत्स्नमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा तत्रैव पूर्वप्रस्थापित प्रायश्चित्ते एवा हयितव्यं स्यात् न तु प्रायश्चित्तान्तरे आरोपणीयमिति ।। सू०१८।।
सूत्रम्- -जे भिक्खू बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा, बहुसोव पंत्रमासि वा बहुसोवि साइरेगपंचमासियं वा, एएसिं परिहारट्ठाणणं अन्नयः परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स ठवणिज्जं टावइत्ता करणिज्ज वेयावडियं, ठाविएवि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया, पुव्यं पडिसेवियं पुव्वं आलोइयं १, पुव्वं पडिसेवियं पच्छा आलोइयं २, पच्छा पडिसेवियं पुव्वं आलोइयं ३, पच्छा पडिसेवियं पच्छा आलोइयं ४ | अलिउंचिए अपरिचियं १, अपलिउंचिए पलिउंचियं २, पलिउंचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४ | अपलिउंचिए अपलिउंचियं आलोएमा - स सव्वमेयं सकयं साहणिय जे एयाए पत्रणाए पहविए निव्विसमाणे पडिसेवइ सेवि कसेणे तत्थेव आरुहियव्वे सिया || सू० १९ ॥
छाया - यो भिक्षुर्बहुशोऽपि चातुर्मासिकं वा बहुशोऽपि सातिरेकचातुर्मासिकं वा बहुशोऽपि पाञ्चमासिकं वा बहुशोऽपि सातिरेकपाञ्चमासिकं वा एतेषां परिहारस्थानानाम् अन्यतरत् परिहारस्थानं प्रतिसेव्याऽऽलोचयेत् अप्रतिकुञ्च्य आलोचयमानस्य स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यं, स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैवारोहयितव्यं स्यात् । पूर्वं प्रतिसेवितं पूर्वमालोचितं १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, पश्चात्प्रतिसेवितं पूर्वमालोचितं ३, पश्चात्प्रतिसेवितं पश्चादालोचितं ४ । अप्रतिकुञ्चितेऽप्रतिकुञ्चितं, अप्रतिकुञ्चिते प्रतिकुञ्चितं २, प्रतिकुञ्चितेऽप्रतिकुंचितं ३, प्रतिकुञ्चिते प्रतिकुञ्चितं । । अप्रतिकुञ्चिते अप्रतिकुञ्चितम् आलोचयतः सर्वमेतत् स्वकृतं संहृत्य य पतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैवारोहयितव्यं स्यात् ॥ सू० १९ ॥
भाष्यम् - - - ' जे भिक्खू' इति । 'जेभिक्खू' यः कश्चित् भिक्षुः 'बहुसोवि' बहुशोऽपि बहुशो - ऽनेकवारमिति यावत् ‘चाउम्मासि वा' चातुर्मासिकं वा 'बहुसोवि' बहुशोsपि 'साइरेगचाउम्मासियं वा' सातिरेकचातुर्मासिकं वा 'बहुसोवि पंचमासियं वा' बहुशोऽनेकवारं पाञ्चमासिकं वा, 'बहुसोवि साइरेगपंचमासियं वा' बहुशोऽनेकवारं सातिरेक पाञ्च मासिकं वा परिहार
व्य. ४