SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ व्यवहारवे चतुर्थभङ्गमाह - 'पच्छायडिसेवियं पच्छा आलोइयं पश्चात् प्रतिसेवितं पश्चादालोचितम् । तत्र - पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितो भूत्वा तेन यथाकथञ्चन प्रतिसेवितम् पश्चात् पश्चानुपूर्व्या आलोचितं प्रतिसेवनाऽनुक्रमेणैवालोचितम्, अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाऽऽप्यालोचितमिति चतुर्थो भङ्गः ४ ॥ २४. इह प्रथमचरमभङ्गौ अप्रतिकुञ्चने, द्वितीयतृतीयौ प्रतिकुञ्चनायामिति । यदिह प्रतिञ्चनाऽप्रतिकुञ्चनाभ्यां चतुर्भङ्गी कृता, तामेवाह - 'अपलिउंचिए' इत्यादि । 'अपलिउंचिए अपलिउचिय' अप्रतिकुञ्चितेऽप्रतिकुञ्चितम् । यदा खलु अपराधान् प्राप्तः आलोचनाभिमुखः तदैवं संकल्पं कृतवान् कश्चित् - यथा सर्वेऽपि अपराधाः मया आलोचयितव्याः, एवं पूर्वसंकल्पकालेप्रतिकुञ्चिते आलोचनावेलायामप्रति कुञ्चितमेवालोचयतीति प्रथमो भङ्गः १ ॥ · द्वितीयभङ्गमाह – 'अपलिउंचिए पलिउंचियं' अप्रतिकुञ्चिते प्रतिकुञ्चितं, पूर्व संकल्प - कालेऽप्रतिकुञ्चितम् आलोचनासमये तु प्रतिकुञ्चितं सकपटमालोचनं कृतमिति द्वितीयो भङ्गः । तृतीयभङ्गमाह - 'पलिउंचिए अपलिउंचियं' । प्रतिकुञ्चितेऽप्रतिकुञ्चितम् - पूर्वं संकल्पकाले प्रतिकुञ्चिते आलोचनाकाले भावपरावर्त्तनात् सर्वमपि अप्रतिकुञ्चितम् आलोचयतीति तृतीयो भङ्गः ३ । चतुर्थभङ्गमाह – 'पलिउंचिए पलिउंचियं प्रतिकुञ्चिते प्रतिकुञ्चितं यथा पूर्वं संकल्पकाले केनापि प्रतिकुञ्चितं सकपटं मया सर्वेऽपराधा नालोचनीयाः, ततः एवं संकल्पकाले प्रतिकुञ्चिते, आलोचनाकालेsपि प्रतिकुञ्चितमेवालोचयतीति चतुर्थो भङ्गः ४ । तथा च- निरवशेषं परिहारस्थानमालोचयतः सर्वमेतत् यदापन्नमपराधजातं यदि वा कथमपि प्रतिकुञ्चना कृता स्यात् ततः प्रतिकुञ्चनानिष्पन्नं यच्चाचार्येण सहालोचनासमये तुल्यासनोच्चासननिष्पन्नं या चालोचनाकाले असमाचारी तन्निष्पन्नं च । 'पलिउंचिए पलिउंचियं आलोएमाणस्स' प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयतः - 'सव्वमेयं' सर्वमेतत् उपरोक्तमपराधजातम् 'सकयं' स्वकृतं स्वयमात्मनाऽपराधकारिणा कृतमुत्पादितमिति स्वकृतमपराधजातम् 'साहणिय' संहृत्य सर्वमेकत्र मेलयित्वा यदि सञ्चयितं प्रायश्चित्तस्थानमापन्नः, ततः षाण्मासिकं प्रायश्चित्तं दद्यात् । यत्पुनः षाण्मासिकातिरिक्तमपराधजातं तत्सर्वमपि परित्यजेत् । अथ पुनर्यदि मासादिकं प्रायश्चित्तस्थानमापन्नः ततस्तावन्मात्रं मासादिकमेव प्रायश्चित्ते दातव्यं नाधिकमिति । 'जे एयाए पट्टणाए पविए' यः साधुः साध्वी वा एतया अनन्तरपूर्वकथितया षाण्मासि मासिक्यादिकया वा प्रस्थापनया प्राकृतस्याऽपराधजातस्य विषये या स्थापना प्रायश्चित्तदान-
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy