SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाग्यावचूरी उ०- ३ ० १२-१३ प्रथमपश्चादुपस्थितयोर्वस्त्रादिग्रहणविधिः १५ दको वा यं चान्यं पुरतः कृत्वा विहरति कल्पते तस्यास्तम्निश्रया चेंल प्रतिग्रहीतुम् ॥ सु०१२ ॥ चूर्णी - 'निग्गंथीए य' इति । निर्ग्रन्ध्याश्च कीदृश्या इत्याह-गाथापतिकुलं गृहस्थगृहं पिण्डपातप्रतिज्ञया-आहार ग्रहणेच्छया अनुप्रविष्टाया यदि चेलार्थः चेलस्य अर्थः प्रयोजनं अल्पवस्त्रत्वेन वस्त्रग्रहणप्रयोजनं समुत्पद्येत तदा तस्या निर्ग्रन्थ्या आत्मनः निश्रया आत्मीयत्वेन ' इदं वस्त्रं मम भविष्यती' - त्येवंरूपया निश्रया चेलं वस्त्रं प्रतिग्रहीतुं गृहस्थादादातुं नो कल्पते । तर्हि कथं कल्पते ? इति तद्विधिं प्रदर्शयति - तस्याः प्रवर्त्तिनीनिश्रया - 'इदं वस्त्रं गृह्णामि मम प्रवर्त्तिनी - निश्रया, सा यस्याः कस्या मम अन्यस्या वा दास्यति सा ग्रहीष्यति' इत्येवंरूपया गृहस्थं प्रत्येवं वाचा प्रकटय्येत्यर्थः चेलं वस्त्रं प्रतिग्रहीतुं कल्पते । यदि नो चाथ प्रवर्त्तिनी सामाना सन्निहिता तत्र ग्रामे उपाश्रये वा न स्यात् नो भवेत्तदा तत्र ग्रामे यः सः यः कोऽपि सामान : संनिहितः स्यात्, कः ? इत्याह- आचार्यो वा, आचार्य : - यः पञ्चाचारान् स्वयं पालति परान् पालयति सः, तथा योऽर्थं वाचयति, गच्छस्य मेथीभूतः शरीराद्यष्टसंपदायुक्तो भवेत्स आचार्यः संनिहितो भवेत्, तदभावे उपाध्यायः - उप - समीपम् एत्य अधीयते प्रवचनं शिष्यैः यस्मात् सवा भवेत्, तदभावे प्रवर्त्तकः - प्रवर्त्तयति आचार्योपदिष्टेषु कार्येषु तपःसंयमयोगवैयावृत्त्यसेवाशुश्रूषाऽध्ययनाध्यापनसूत्रार्थादिषु यथायोग्यं बलाबलं विचार्य नियोजयंति यः स प्रवर्त्तको भवेत्, तदभावे स्थविरो वा - संयमयोगेषु सीदतः साधून् ऐहिकामुष्मिकापायप्रदर्शनपूर्वकं ज्ञानादिषु स्थिरीकरोति यः स स्थविरो वा भवेत्, तदभावे गणी वा-गणः कतिपयसाधुसमुदायः स्वस्वा - मिसम्बन्धेन यस्यास्ति सः, यः साधुसमुदायेन सह विचरणशीलः स गणी वा भवेत् तदभावे गणधरो वा यः गणचिन्ताकारको गणस्य योगक्षेमविधायकः, तत्र अप्राप्तस्य प्राप्तिर्योगः, प्राप्तस्य रक्षणं क्षेमस्तद्विधायको गणधरो वा भवेत्, तदभावे गणावच्छेदको वा गणस्य साधुसमुदायस्यावच्छेदं विभागं करोति यः गणव्यवस्थाकारकः स गणावच्छेदको वा भवेत्, तदभावे यं चान्यं कमपि गीतार्थं पुरतः कृत्वा साध्वी तदाज्ञया विहरति सो वा तत्र संनिहितो भवेत्, एतेषु आचार्यादिषु यः कोऽपि तदा संनिहितो भवेत् तन्निश्रया तन्निश्रामधिकृत्य तस्या निर्ग्रन्थ्याः चेलं - वस्त्रं प्रतिग्रहीतुं कल्पते, भिक्षार्थं गृहस्थगृहे गतया निर्ग्रन्ध्या वस्त्रावश्यकतायां स्वनिश्रया का वस्त्रं न ग्रहीतव्यमिति भावः ॥ सू० १२ ॥ • पूर्वसूत्रे निर्ग्रन्ध्या वस्त्रग्रहणविधिः प्रोक्तः, साम्प्रतं प्रथमतया प्रत्रजितुकामस्य पूर्वोपस्थितस्य च वस्त्रग्रहणविधिमाह - 'निग्गंथस्स' इत्यादि । सूत्रम् - निग्गंथस्स णं तप्पढमयाए संपव्वयमाणस्य कप्पइ रयहरणगोच्छगपडिमाया तिहिं कसिणेर्हि वत्थेहिं आयाए संपव्वइत्तए, से य पुव्वोवहिए सिया एवं से ९
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy