SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पसूत्रे पूर्वं निर्ग्रन्थनिर्ग्रन्थीनां सामान्येन भिन्नाभिन्नवस्त्रधारणे विधिर्निषेधश्च प्रतिपादितः, साम्प्रतं निर्ग्रन्थानां निर्ग्रन्थीनां च स्वस्वकल्पानुसारेण पृथक् पृथग् वस्त्रधारणे निषेधं विधिं च प्रतिपादयितुकामः प्रथमं निर्ग्रन्थसूत्रमाह- 'नो कप्पइ० उग्गहणंतगं' इत्यादि । सूत्रम्--नो कप्पर निग्गंथाणं उग्गहणंतगं वा उग्गहपट्टगं वा धारितए वा परिहरितएवा ॥ सू० १० ॥ छाया - नो कल्पते निर्ग्रन्थानाम् अवग्रहानन्तकं वा अवग्रहपट्टकं वा धतुं वा परिहवा ॥ सू० १० ॥ ६४ चूर्णी -- 'नो कप्पड़' इति । निर्ग्रन्थानाम् अवग्रहानन्तकम् - समयभाषया गुह्यस्थानाच्छादनवस्त्रं 'लंगोट, कौपीन' इति प्रसिद्धम्, अवग्रहपट्टकं तस्याप्युपरि तदाच्छादनार्थं यद् धार्यते तत् घर्त्तुं स्वनिश्रायां स्थापयितुं परिहर्तुं परिभोक्तुं वा नो कल्पते, अनयोस्तापसादीनामुपकरणत्वेन जैनमुनीनामकल्प्यत्वादिति ॥ सू० १० ॥ पूर्वोक्तं वस्त्रद्वयं निर्ग्रन्थीनां कल्प्यत्वेन तद्विधिसूत्रमाह - ' कप्पइ० उग्गहणंत गं' इत्यादि । सूत्रम् - - कप्पर निग्गंथीणं उग्गहणंतगं वा उग्गहपगं वा धारितए वा परिहरितए वा ॥ सू० ११ ॥ छाया -कल्पते निर्ग्रन्थीनाम् अवग्रहानन्तकं वा अवग्रहपट्टकं वा धर्तुं वा परिहर्तुं वा ॥ सु० ११ ॥ चूर्णी - ' कप्पइ' इति । व्याख्या सुगमा नवरं पूर्वोक्तं वस्त्रद्वयं यद् निर्ग्रन्थानां प्रतिषिद्धं तद् निर्ग्रन्थीनां कल्पते, निर्ग्रन्थीनां स्त्रीत्वेन रजोदर्शन संजातरुधिरस्त्रावप्रतिरोधने आवश्यकत्वादिति ॥ सू० ११ ॥ पूर्वसूत्रे निर्ग्रन्थीनां वस्त्रद्वयधारणे विधिः प्रोक्तः, साम्प्रतं वस्त्रप्रसङ्गाद् निर्ग्रन्थी वस्त्रग्रहणे विधिमाह - 'निग्गंथीए य' इत्यादि । सूत्रम् -- निग्गंथीए य गाहावइकुलं पिंडवायपडियाए अणुपविट्ठाए लट्ठे समुपज्जेज्जा, नो से कप्पर अप्पणो नीसाए चेलं पडिग्गाहित्तए, कप्पर से पवत्तिणी - fare चेलं डिग्गाहित्तए । नो य से पवित्तिणी सामाणा सिया जे से तत्थ सामाणे आयरिए वा उवज्झाए वा पत्रत्तए वा थेरे वा गणी वा गणहरे वा गणावच्छेयए वा जं asi पुरओ कट्टु विरइ कप्पर से तन्नीसाए चेलं पडिग्गाहित्तए । सू० १२ ॥ छाया -- निर्ग्रन्यच गाथापतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टायालार्थं समुस्पद्येत, नो तस्याः कल्पते आत्मनो निश्रया चेलं प्रतिग्रहीतुम्, कल्पते तस्याः प्रवतिनीनिश्रया चेलं प्रतिग्रहीतुम्, नो चेद् अथ तत्र प्रवर्त्तिनी सामाना स्यात् यः स तत्र सामानः आचार्यों वा उपाध्यायो वा प्रवर्त्तको वा स्थविरो वा गणी वा गणधरो वा गणावच्छे
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy