SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चूणि-भाष्या-वचूरी उ० ३ सू० १-२ साधु-साध्वीनां परस्परोपाश्रयगमननिषेधः ५७ नामुपाश्रये निम्रन्थानां न कल्पते स्थातुं वा ऊर्ध्वस्थितिरूपेण, निषत्तु वा उपवेष्टुं वा पर्यङ्कासनादिना, त्वग्वर्त्तयितुं वा पार्श्वपरिवर्तनं कर्तुम्, निद्रातुं वा निद्रां ग्रहीतुम्, प्रचलायितुं वा उपविष्टः स्थितो वा निद्रां ग्रहीतुम् , अशनं वा ४ अशनादि चतुर्विधमाहारमाहर्तुं वा, उच्चारं वा संज्ञारूपम्, प्रस्रवणं वा कायिकीरूपम्, खेलं वा श्लेष्माणम्, सिवाणं वा नासिकामलम्, एतानि शरीरेन्द्रियमलानि तत्र परिष्ठापयितुं न कल्पते । तथा स्वाध्यायं वा सूत्रार्थरूपं कर्तुम्, ध्यानं वा अन्तर्मुहूर्त्तकालप्रमाणात्मचिन्तनरूपं ध्यातुं-कर्तुम् , कार्योत्सर्ग वा कायिकव्यापारनिवृत्तिपूर्वकं लोगस्सगुणनरूपं कत्तम्, स्थानं वा ऊर्वीभूय कायिकचेष्टावर्जितं लोगस्सगुणनरूपं द्वादशभिक्षुप्रतिमामर्यादारूपं स्थातुम् आचरितुम् निम्रन्थीनामुपाश्रये निर्ग्रन्थानामेतानि कार्याणि कर्तुम् नोकल्पते, एवं करणे निर्ग्रन्थीभिरपमानितत्वादिसंभवात् , अधिकपरिचये स्वपरतदुभयानां ब्रह्मवते शङ्कासद्भावाच्चेति । यस्मादेवं तस्मात् निम्रन्थीनामुपाश्रये निर्ग्रन्थस्याकारणे गमनं निषिद्धमेव, कारणेऽपि गमने द्वितीयेन साधुना सहितः सन् गच्छेत् कारणं संपाद्य चाल्पकालेनैव ततोऽपसरेत् एकाकी न गच्छेदिति भावः ॥ सू० १॥ अत्राह भाष्यकारः--'निग्गंथीवसहीए' इत्यादि । भाष्यम्--निग्गंथीवसहीए, निग्गंथाणं न कप्पए ठाउं । चइयव्बा दस ठाणा, वयभंगुप्पायगा जम्हा ॥३॥ कारणओ जइ गच्छइ, किच्चा कज्ज पुणो निवत्तेज्जा । अहियं तत्थ न चिठे, अहिगरणाईण संभवओ ॥४॥ कारणजाए गच्छइ, विहिणा एत्थं भवे चउन्भंगी । असहिण्हु सहिण्हू इय, एत्थं पुण होइ चउभंगी ॥५॥ छाया-निर्ग्रन्थीवसतौ निर्ग्रन्थानां न कल्पते स्थातुम् । त्यक्तव्यानि दश स्थानानि, ब्रतभङ्गोत्पादकानि यस्मात् ॥३॥ कारणतो यदि गच्छति, कृत्वा कार्य पुनर्निवर्तेत । अधिकं तत्र न तिष्ठेत्, अधिकरणादीनां संभवतः ॥४॥ कारणजाते गच्छति विधिना, अत्र भवेत् चतुर्भडी । असहिष्णुः सहिष्णुरिति, अत्र पुनर्भवति चतुर्भङ्गी ॥५॥ अवचूरी-'निग्गंथीवसहीए' इति व्याख्या सुगमा । अयं भावः-एतानि वक्ष्यमाणानि दश स्थानानि साधूनां सर्वथा त्याज्यानि, तानि यथा-प्रथमं निर्ग्रन्थीनामुपाश्रये निष्कारणं गमनम् १, तत्र गत्वा दूरतस्तासामवलोकनम् २, कतमाः कतमाः पुनरेता इति जिज्ञासाकरणम् ३, 'अमुकी अमुकी वा एपा' इत्येवं निश्चयकरणम् ४, ताभिः सह वार्तालापकरणम् ५, तासामङ्गोपाङ्गादिषु दृष्टिपातकरणम् ६, तासु काञ्चिदेकां दृष्ट्वा 'एतादृशी ममाप्यासीत्'इति भूतपूर्वस्वस्त्रीसाम्यचिन्तनम् ७, तासु कयाचित् सह गुप्ताभिभाषणम् ८, तन्निमित्तं तस्या अग्रे कस्यापि
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy