SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ।अथ तृतीयोद्देशकः। व्याख्यातो द्वितीयोद्देशकः, साम्प्रतं तृतीयोदेशकः प्रस्तूयते, अत्र द्वितीयोदेशकान्तिमसूत्रेणास्य तृतीयोद्देशकस्यादिसूत्रेण सह कः सम्बन्धः ? इति भाष्यकारः सम्बन्धं प्रदर्शयति'वत्थरओहरणाणं' इत्यादि । भाष्यम्-वत्थरओहरणाणं, पुवं वुत्तो विही समासेण । तेसिं निग्गंथीणं, दाणविही एत्य नायव्यो ॥१॥ गच्छइ तासि वसहि, गणचिंताकारगो पयाएउं । तस्स विही इह कत्थइ, संबंधो एत्थ एसेव ॥२॥ छाया-वस्त्ररजोहरणानां पूर्वमुक्तो विधिः समासेन । तेषां निर्ग्रन्थीभ्यो, दानविधिरत्र शातव्यः ॥१॥ गच्छति तासां वसति, गणचिन्ताकारकः प्रदातुम् । तस्य विधिरिह कथ्यते, सम्बन्धोऽत्र एष एव ॥२॥ अवचूरी—'वत्थ' इति । पूर्व द्वितीयोदेशस्यान्तिमे सूत्रद्वये वस्त्ररजोहरणानां विधिःवस्त्रस्य पञ्चविधत्वं रजोहरणस्य पञ्चविधत्वं चेति तद्रूपो विधिः समासेन संक्षेपेण उक्तः कथितः । अत्र अस्मिन् तृतीयोद्देशकस्य प्रथमसूत्रे तेषां पूर्वोक्तप्रकाराणां वस्त्राणां रजोहरणानां च निर्ग्रन्थीभ्यो दानविधिः दानविषयो विधिः ज्ञातव्यः ॥१॥ ___ ततः गणचिन्ताकारकः गणव्यवस्थाकारको गणधरः वस्त्ररजोहरणानि निम्रन्थीप्रायोग्याणि प्रदातुं यथाकल्पं वितरीतुं तासां निग्रन्थीनां वसतिं गच्छति, तस्य साध्वीवसतिगमनशीलस्य साधोः विधिः-तत्र गमनागमनस्थानादिरूपः निषेधविधानात्मकः साधुकल्प इह अस्मिन् वक्ष्यमाणे तृतीयोदेशकस्यादिसूत्रे कथ्यते प्रतिपाद्यते । अत्रास्मिन् प्रकरणे पूर्वापरसूत्रयोः एष एव सम्बन्धोऽस्तीति ॥२॥ इत्यनेन सम्बन्धेनायातस्यास्य तृतीयोद्देशकस्येदं निर्ग्रन्ध्युपाश्रयगमनस्थानादिप्रतिपादकमादिसूत्रम्-'नो कप्पइ निग्गंथाणं' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाणं, निग्गंथीण उवस्सयंसि चिहित्तए वा निसीइत्तए वा तुयट्टित्तए वा निदाइत्तए वा पयलाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारं आहरित्तए, उच्चारं वा पासवणं वा खेलं वा सिघाण वा परिदृवित्तए सज्झायं वा करित्तए, झाणं वा झाइत्तए, काउस्सग्गं वा करित्तए, ठाणं वा ठाइत्तए ॥ सू०१॥ छाया—नो कल्पते निर्ग्रन्थानां, निर्ग्रन्थीनामुपाश्रये स्थातुं वा निषत्तं वा त्वग्वर्त्तयितुं वा निद्रायितुं वा प्रचलायितुं वा, अशनं वा पानं वा खाद्यं वा स्वायं वा आहारमाहर्तुम्, उच्चारं वा प्रस्रवणं वा खेलं वा सिङ्घाणं वा परिष्ठापयितुम्, स्वध्यायं वा कर्तुम्, ध्यानं वा ध्यातुम्, कायोत्सर्ग वा कर्नम्, स्थानं वा स्थातुम् ॥ सू०१॥ _चूर्णी--'नो कप्पइ निग्गंथाणं' इति । निर्ग्रन्थीनामुपाश्रये वस्त्रदानादिकार्यवशात्तत्र गतानां निम्रन्थानाम् अग्रेऽनुपदं वक्ष्यमाणानि स्थानादीनि कत्तुं न कल्पते । तान्येव दर्शयति-निम्रन्थी
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy