SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चुणिभाष्यावचूरी उ० २ ० ६-९ सचित्तप्रतिबद्धोपाश्रयनिवासविधिः ४३ साम्प्रतमग्निकायप्रतिबद्धोपाश्रयसूत्रमाह-‘उवस्सयस्स० सव्वराईए' इत्यादि । सूत्रम्-उवस्सयस्स अंतो वगडाए सव्वराईए जोई झियाएज्जा नो कप्पइ निगंथाण वा निग्गंथीण वा अहालंदमवि वत्थए, हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्ना एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, जे तत्थ एगरायाओ वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा ॥ सू०६॥ ___छाया- उपाश्रयस्य अन्तर्वगडायां सार्वरात्रिकं ज्योतिः ध्मायेत् नो कल्पते, निम्रन्थानां वा निग्रन्थीनां वा यथालन्दमपि वस्तुम्, हुरत्था च उपाश्रयं प्रतिलिखन् नो लभेत एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम्, यस्तत्र एकरात्राद्वा द्विरात्राद्वा परं वसति तस्य स्वान्तरात् छेदो वा परिहारो वा । सू०६॥ चूर्णी-- 'उवस्सयस्स' इति । इदमपि सूत्रं सुराविकटकुम्भसूत्रवदेव व्याख्येयम्, विशेषस्त्वयम्-अत्र सव्वराईए जोई झियाएब्जा इति वाच्यम्, तस्यायमर्थः-सार्वरात्रिकं-परिपूर्णरात्रिव्यापक ज्योतिः अग्निकायः ध्मायेत् प्रज्वलेत् , शेषं पूर्ववत् । साधूनामत्र वासे यत्राग्निकायविराधना तत्र षट्कायविराधना स्यादतः षट्कायविराधनादोष आपद्येत । अन्योपाश्रयालाभे एकद्विरात्रं वस्तुं कल्पते इति कारणजातेऽपवादः ॥ सू०६॥ अथ प्रदीपप्रतिबद्धोपाश्रयसूत्रमाह-'उवस्सयस्स० पईवे' इत्यादि ॥ सूत्रम्--उवस्सयस्स अंतो वगडाए सव्वराईए पईवे पईवेज्जा नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए, हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्जा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, जे तत्थ एगरायाओ वा दुरायाओ वा.परं वसइ से संतरा छेए वा परिहारे वा ॥ सू०७॥ छाया-उपाश्रयस्यान्तर्वगडायां सार्वरात्रिकः प्रदीपः प्रदीप्येत, नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा यथालन्दमपि वस्तुम्, हुरत्था च उपाश्रयं प्रतिलिखन् नो लमेत एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम्, यस्तत्र एकरात्राद्वा द्विरात्राद्वा परं वसति तस्य स्वान्तरात् छेदो वा परिहारो वा ॥सू-७॥ चूर्णी-'उवस्सयसप' इति । इदं प्रदीपसूत्रमपि सुराविकटकुम्भसूत्रवदेव व्याख्येयम् , विशेषस्त्वयम्-'सव्वराईए' सार्वरात्रिकः परिपूर्णरात्रिव्यापकः संपूर्णरात्रिं यावत् प्रदीपः तैलप्रदोपो विद्युत्प्रदीपो वा दीयेत प्रज्वलेत् तदा तत्र यथालन्दमपि निम्रन्थनिर्ग्रन्थीनां वस्तुं न कल्पते अन्योपाश्रयाभावे एकद्विरात्रं तत्र वस्तुं कल्पते, इत्यादि पूर्ववद् व्याख्या कर्तव्येति । अग्न्यारम्भे साधूनां वस्तुं न कल्पते तत्र पूर्ववदेव षट्कायविराधनादयो दोषाः संभवेयुः दीपेषु पततां पतङ्गादिप्राणिनां विराधनासंभवः, उपध्यादिषु तेषां पतनात् साधुशरीरेणापि विराधना स्यात् , इत्यादिदोषसंघातसंभवात् , अपवादे अन्योपाश्रयालामे एकद्विरात्रं कल्पतेऽपि, इति सूत्राशयः ।। सू०७ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy