SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४२ च उपाश्रयं प्रतिलिखन् नो लमेत एवं तस्य कल्पते एकरात्रं वा द्विरा वा वस्तुम् , यस्तत्र एकरात्राद्वा द्विरात्राद् वा परंवसति तस्य स्वान्तरात् छेदो वा परिहारो वा ॥सू. ४॥ चूर्णी-'उवस्सयस्स' इति । उपाश्रयस्यान्तर्वगडायां सुराविकटकुम्भो वा सुराविकटस्य पिष्टनिष्पन्नमद्यस्य कुम्भो घटो वा, सौवीरविकटस्य-पिष्टवर्जित गुडादिनिष्पन्नमद्यस्य कुम्भो घटो वा उपनिक्षिप्तः स्यात् स्थापितो भवेत् तदा तत्र निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि-क्षणमात्रमपि आर्द्रहस्तरेखापरिशोषणकालमात्रमपि वस्तुं नो कल्पते । इत्युत्सर्गसूत्रम् । अथापवादमाह-'हुरत्था' इति देशी शब्दः बहिरर्थप्रतिपादकस्तेन बहिश्च तादृशोपाश्रयाद् बहिरन्यं च उपाश्रयं प्रतिलिखन शोधयन् यदि नो लभेत तत्र ग्रामनगरादौ निर्दोषोपाश्रयं न प्राप्नुयात् तदा एवम्-एतादृश्यां परिस्थिती सत्यां 'से' तस्य अत्र निर्ग्रन्थजातित्वेन एकवचनम्, कल्पते तथाविधेऽपि उपाश्रये एकरात्रं वा द्विरात्रं वा अत्र रात्रपदेन अहोरात्रं गृह्यते तेन एकाहोरात्रं वा द्वयहोरात्रं वा वस्तुम् । किन्तु 'जे' यः कोपि साधुः तत्र तादृशे उपाश्रये एकरात्राद्वा द्विरात्राद्वा परम्-अधिकं त्रिचतूरात्रादिकं यावत् वसति 'से' तस्य 'संतरा' स्वान्तरात् स्वकृतं यद् अन्तरं भगवदुक्तैकद्विरात्रतो भेदः त्रिचतूरात्रादिकालावस्थानरूपः तस्मात्, भगवदाज्ञाभेदकरणात् भगवदाज्ञाऽनाराधनादित्यर्थः छेदो वा छेदः पञ्चरात्रिन्दिवादिः, परिहारो वा मासलघुकादिस्तपोविशेषो वा आपद्यते इति ।। सू०४ ॥ पूर्वसूत्रे सुराविकटादिप्रतिबद्धोपाश्रयवासस्य निषेधः, सापवादं विधिश्च प्रदर्शितः, साम्प्रतं पूर्ववदेव उदकविकटादिप्रतिबद्धोपाश्रयस्य निषेधं सापवादं विधिं च प्रदर्शयति–'उबस्सयस्स, इत्यादि । सूत्रम्--उवस्सयस्स अंतो वगडाए सीओदगवियडकुंभे वा उसिणोदगवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमपि वत्थए । हुरत्था य उवस्सयं पडिलेहमाणे नो लभेजा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, जे तत्थ एगरायाओ वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा ॥ सू०५॥ छाया-उपाश्रयस्य अन्तर्वगडायां शीतोदकविकटकुम्भो वा उष्णोदकविकटकुम्भो वा उपनिक्षिप्तः स्यात् नो कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुम्, हुरत्था च उपाश्रयं प्रतिलिखन् नो लमेत एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम्, यस्तत्र एकरात्राद्वा द्विरात्राद्वा परं वसति तस्य स्वान्तरात् छेदो वा परिहारो वा ॥सू०५॥ चूर्णी-उवस्सयस्स' इति । अस्य सूत्रस्य व्याख्या सुराविकट कुम्भसूत्रवदेव ज्ञातव्या, नवरं-विशेष एतावानेव यत् अत्र 'सीओदगवियडकुंभे वा उसिणोदगवियड कुंभे वा' इति वाच्यम् अत्रायमर्थः-शीतोदकविकृतकुम्भः शीतोदकं च तद् विकृतं च स्ववर्णादिना ध्वस्तं शीतोदकविकृतं विकृतशीतोदकं, तस्य कुम्भो घटः, एवम् उष्णोदकविकृतकुम्भः-उष्णोदकं च तद् विकृतं च उष्णोदकविकृतं विकृतोष्णोदकं तस्य कुम्भो घटो यत्रोपाश्रये उपनिक्षिप्तो भवेत् । शेषं सर्वं पूर्ववदिति ॥ सू०५॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy