SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाच्यावधूरी उ० १ सू० ४१-४३ वस्त्रादिग्रहणविधिः ३१ परिहियते यत्तत् परिहारम्-उपभोगयोग्यं वस्त्रादिकं परिहत्तुं धत्तुमुपभोक्तुं वा कल्पते इति पूर्वेण सम्बन्धः ॥ सू० ३९॥ पूर्वसूत्रे भिक्षार्थगतस्य साधोर्गृहस्थोपनिमन्त्रितवस्त्रादिग्रहणविधिः प्रतिपादितः, साम्प्रतं विचारविहारभूमिगतस्य वस्त्रादिग्रहणविधिमाह-'निग्गंथं च णं' इत्यादि, सूत्रम्--निग्गथं च णं बहिया वियारभूमि वा विहारभूमि वा निक्खंतं समाणं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उबनिमंतेज्जा, कप्पइ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोच्चंपि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए ॥ सू० ४०॥ छाया-निग्रन्थं च खलु बहिर्विचारभूमि वा, विहारभूमि वा निष्क्रान्तं सन्तं कोऽपि वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा, पादप्रोञ्छनेन वा उपनिमन्त्रयेत्, कल्पते तस्य सागारकृतं गृहीत्वा आचार्यपादमूले स्थापयित्वा द्वितीयमपि अवग्रहं अनुशाप्य परिहर्नम् ॥४॥ चूर्णी-'निग्गंथं च णं' इति । निम्रन्थं च खलु, 'बहिया' बहिः उपाश्रयाबहिःप्रदेशे विचारभूमि-विचारः-संज्ञा तस्य भूमिः विचारभूमिस्तां विचारभूमिं स्थण्डिलभूमिमित्यर्थः, वाअथवा विहारभूमि -विहारभूमिरिति स्वाध्यायभूमिः मुनिर्यत्र शास्त्रस्वाध्यायार्थमुपाश्रयाबहिर्गत्वा एकान्तभूमौ आत्मद्वितीयः आत्मतृतीयः सन् तत्र स्थित्वा सूत्रमथं तदुभयं च चिन्तयति सा विहारभूमिः समयभाषया कथ्यते, ततस्तां विचारभूमि विहारभूमि वा तत्र गमनार्थमित्यर्थः निष्क्रान्तं गतं सन्तं कोऽपि गृहस्थः वस्त्रादिग्रहणार्थमुपनिमन्त्रयेत् यथा-'आगच्छतु भगवन् ! मम गृहे भवत्कल्प्यं वस्त्रादि गृह्णातु' इत्येवं प्रार्थयेत् तदा, इत्यादि यथा पूर्व भिक्षाचर्यागतस्य यो वस्त्रादिग्रहणविधिरुक्तः स एवात्रा बोध्यः ॥ सू० ४०॥ पूर्व निर्ग्रन्थविषयकं भिक्षाचर्यार्थ गतस्य, तथा विचारभूमि विहारभूमिं गतस्य च वस्त्रादिग्रहणविधिप्रतिपादकं सूत्रद्वयं प्रतिपादितम्, साम्प्रतं एष एव विधिनिग्रन्थीमुद्दिश्य सूत्रद्वयेन प्रतिपाद्यते-'निग्गंथिं च णं' इत्यादि । सूत्रम् --निग्गंथिं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविलु केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा कप्पइ से सागारकडं गहाय पवत्तिणीपायमूले ठवित्ता दोच्चंपि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए॥ निग्गंथिं च णं वियारभूमि वा विहारभूमि वा निक्खंत समाण केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेजा, कप्पइ से सागारकडं गहाय पवत्तिणीपायमूले ठवित्ता दोच्चपि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए ॥ सू० ४२॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy