SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ चूर्णिमायावचूरो उ० १ सू० ३७-३८ विहरणविधिः २७ " " न वा कुर्यात् इच्छया पर:- द्वितीयः साधुस्तं साधुं वन्देत वा, इच्छया परः अन्यः श्रमणो न वन्देत वा, इच्छया परः साधुस्तेन साधुना सह संभुञ्जीत - एकसार्थं भोजनं दानग्रहणसंभोगं वा कुर्यात् वा, इच्छया परः अन्यो द्वितीयः साधुर्न संभुञ्जीत - एकमण्डल्यां भोजनं तेन सह न वा कुर्यात् इच्छया परः साधुस्तेन साधुना सह संवसेत् -सम् एकीभूय - एक स्मिन् उपाश्रये वसेद्वा, इच्छया परः साधुः न वा संवसेत् - - एकीभूय एकत्रोपाश्रये न वसेद् वा, इच्छया परः साधुः उपशाम्येद् वा इच्छया परः श्रमणो नोपशाम्येद् वा परम्, तत्र यः श्रमण उपशाम्यति कषायतापाऽपगमेन निर्वृतिमुपैति उपशमं प्राप्नोतीत्यर्थः, तस्य सम्यग्दर्शनसम्यग्ज्ञानादीनामाराधना भवति, यः पुनः साधुः नोपशाम्यति उपशमं न प्राप्नोति तस्य साधोस्तेषां सम्यग्दर्शनादीनां नास्ति आराधना, तस्मात् कारणात् एवम् उक्तरीत्या विचिन्त्य -विभाव्य आत्मनैव उपशान्तव्यम् उपशभो विधेयः । शिष्यः प्राह 'से किमाहु अंते' हे भदन्त ! से तत् किमत्र विषये कारणमाहुः उक्तवन्तः तीर्थकरप्रभृतयः ? आचार्य आह - 'उवसमसारं सामन्नं' उपशमसारम् - उपशमः सारो यत्र तत् उपशमसारमेव श्रामण्यं भवति, नोपशमरहितं श्रामण्यमित्यर्थः, उपशमवर्जितस्य श्रामण्यस्य निष्फलत्वादिति भावः । तथा चोक्तम् - 'सामन्नऽणुचरंतस्स कसाया जस्स उक्कडा होंति । मन्नामि उच्छुपुष्कं व निष्फलं तस्स सामन्नं ॥ १ ॥ श्रामण्यमनुचरतः कषाया यस्य उत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य श्रामण्यम् ॥ १ ॥ इति ॥ सू० ३५|| अथ पूर्वोक्ताऽधिकरणसूत्रेण सहास्य वर्षावासगमननिषेधसूत्रस्य कः सम्बन्ध: ? इत्यत्राह भाष्यकारः -- ' किच्चा' इत्यादि । भाष्यम् - किच्चा कलहं गच्छर, आगच्छ वा पुणो य खामेउं । वासावासे नेवं, करणिज्जं एस संबंधो ॥ २८ ॥ अवचूरी - 'किच्चा कलहं ' इति । केनापि साधुना सहाधिकरणे समुत्पन्ने तयोर्द्वयोर्मध्ये विवेकिना भिक्षुणा 'उपशमसारं श्रामण्यम्' इति गुरूपदेशमभिसंधाय तदधिकरणं क्षमापनादिना उपशमितम् किन्तु येन सहाऽधिकरणं समुत्पन्नं स उपशाम्यमानोऽपि नोपशान्तो भवेत् स कषायानुबद्धमनाः श्रमणोऽन्यत्र ग्रामादौ 'कलहं किच्चा' अधिकरणं कृत्वा गच्छति, अथवा यः पूर्वमनुपशान्तः सन् अन्यत्र ग्रामादौ गतः स तत्र तस्य मतिपरिवर्तनेन शुभपरिणामवशात् स्वयम्, अन्यसाधूपदेशेन वा येन सहाधिकरणं जातं भवेत्तं साधुं 'खामेउं ' क्षमयितुं स्वापराधं क्षमापनार्थम् गच्छति, अथवा अन्यत्र गतः स सांवत्सरिकक्षमापनाकाले आसन्ने समायाते सति विचारयेत् - 'यन्मया तदधिकरणं न क्षमितमतः कथं तावन्मम सांवत्सरिकप्रतिक्रमणं कर्तु कल्पते' इति विचिन्त्य तं श्रमणं क्षमयितुं पुनरप्यागच्छति, अथवा श्रमणानां परस्परम धिकरणमुत्पन्नमिति श्रुत्वाऽन्यत्र स्थितोऽन्यः
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy