SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ हत्कल्पत एतेन सम्बन्धेनायातमिदमधिकरणोपशमनसूत्र प्रस्तौति-'भिक्खू य' इत्यादि । सूत्रम्--भिक्खू य अहिगरणं कटु तं अहिगरणं विओसवित्ता विओस वियपाहुडे, इच्छाए परो आढाइज्जा इच्छाए परो नो आढाइज्जा, इच्छाए परो अब्भुटिज्जा इच्छाए परो नो अब्भुद्विज्जा, इच्छाए परो वंदिज्जा इच्छाए परो नो वंदिज्जा, इच्छाए परो संभुंजिजा इच्छाए परो नो संभुंजिज्जा, इच्छाए परो संवसिज्जा इच्छाए परो नो संवसिज्जा, इच्छाए परो उपसमिज्जा इच्छाए परो नो उवसमिज्जा, जो उवसमइ तस्स अत्थि आराहणा, जो न उवसमइ तस्स नत्थि आराहणा, तम्हा अप्पणा चेव उपसमियव्वं । से किमाहु भंते ! ? उवसमसारं सामण्णं ॥ सू०३५॥ छाया -भिक्षुश्च अधिकरणं कृत्वा तद् अधिकरणं व्यवशमय्य व्यवशमितप्राभृतः इच्छया पर आद्रियेत इच्छया परो नो आद्रियेत, इच्छया परः अभ्युत्तिष्ठेत् इच्छया परो नो अभ्युत्तिष्ठेत्, इच्छया परो वन्देत इच्छया परो नो वन्देत, इच्छया परः संभु. छजीत इच्छया परो नो संभब्जीत. इच्छया परः संवसेत, इच्छया परो न संवसेत, इच्छया पर उपशाम्येत् इच्छ्या परो नो उपशाम्येत्, य उपशाम्यति, तस्य अस्ति आराधना, यो नोपशाम्यति तस्य नास्ति आराधना, तस्मात् आत्मनैव उपशमितव्यम्, तत् किमाहुः भदन्त ! ? उपशमसारं श्रामण्यम् ॥स्०३५॥ चूर्णी-'भिक्खूय' इति । भिक्षुस्तावत् सामान्यसाधुः चकारात् आचार्य उपाध्यायश्च, अधिकरणम्-अधिक्रियते नरकगतिगमनयोग्यतां प्राप्यते आत्मा येन तत् अधिकरणम् कलहः प्राभृतमित्येकोऽर्थः तत् कृत्वा तथाविधव्यक्षेत्रादिसांनिध्योपबंहितात् कषायमोहनीयोदयाद् अपरश्रमणेन सह कलहरूपम् अधिकरणं विधायेत्यर्थः तदनन्तरं स्वयमन्योपदेशेन वा तस्य कलहस्य ऐहिकपारलौकिकप्रत्यवायबाहुल्यं परिभाव्य तद् अधिकरणं कलहरूपम् व्यवशमय्य वि-विविधैःअनेकैः प्रकारैः स्वापराधप्रतिपत्तिपूर्वकं मिथ्यादुष्कृतदानेन अवशमय्य-उपशमं प्रापय्य तदनन्तरं व्यवशमितप्राभूतः-विशेषेण अवशमितम् उपशान्तीकृतम् अवसानं प्रापितं प्राभृतं कलहो येन स व्यवशमितप्राभृतो दूरीकृतकलहो भवेदित्यर्थः, तथा च गुरु सन्निधौ स्वदुश्चरितमालोच्य तत्प्रदत्तप्रायश्चित्तं च यथावत् प्रतिपद्य पुनस्तदकरणायाभ्युत्तिष्ठेत् । अथ येन सह कलहरूपम् अधिकरणम् उत्पन्नम् स यदि उपशमं नीयमानोऽपि नोपशाम्यति तदा किं कुर्यात् ! इत्यत आह—'इच्छाए परो आढाएज्जा' इत्यादि, इच्छया-यथास्वरुच्या यथेच्छमित्यर्थः, पर:-अन्यों द्वितीयः श्रमण आदियेत वा, इच्छया-यथास्वरुचि स्वेच्छानुसारं परः-अन्यो द्वितीयः साधुः नाद्रियेत वा, पूर्ववत् सम्भाषणादिभिरादरं विदध्याद् वा न वेति भावः, एवम् इच्छया स्वेच्छानुसारं परः-अन्यो द्वितीयः साधुः तम्-उपशामकम् साधुम् अभ्युत्तिष्ठेत् तस्य अभ्युस्थानं कुर्याद् वा, इच्छया-स्वेच्छानुसारं परः-अन्यो द्वितीयः साधुर्नाऽभ्युत्तिष्ठेत्-अभ्युत्थानं
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy