SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ हत्कल्पसूत्रे पूर्व निर्ग्रन्थनिर्ग्रन्थीनां कायिक्यादिनिमित्तं घटीमात्रकधारणाऽधारणे विधिनिषेधश्च प्रोक्तः, तत् कायिक्यादि आहारादि च चिलिमिलिकाप्रावृते स्थाने एव कर्त्तव्यं भवेदिति सा चिलिमिलिका कस्य वस्तुनो भवितुमर्हतीति तत् प्रदर्शयितुमाह-'कप्पइ' इत्यादि । सूत्रम्-कप्पइ निग्गथाण वा निग्गंथीण वा चेलचिलिमिलियं धारित्तए वा, परिहरित्तए वा ॥ सू० १८॥ छाया -कल्पते निर्ग्रन्थानां वा निर्ग्रन्थोनां वा चेलचिलमिलिकां धत्तुं वा परिहर्नु पा ॥ स्.१८ ॥ चूर्णी-'कप्पई' इति । निर्ग्रन्थानां निर्ग्रन्थीनां वा द्वयानामपि चेलचिलिमिलिकां चेलमिति वस्त्रं, तस्य तेन निर्मितां वा चिलिमिलिकां धतु परिहतुं च कल्पते इति सूत्रार्थः, यतो वस्त्ररज्जुकटवंशदलादि. चिलिमिलिकासु केवलं वस्त्रचिलिमिलिकैव कल्पते, रज्ज्वादिचिलिमिलिकासु मत्कुणमशकादिलघुजन्तूनामुत्पत्तिसंभवात् ताः दुष्प्रतिलेल्या भवन्ति तेन संयमात्मविराधनाऽवश्यम्भाविनीति ॥ सू०१८॥ पूर्वमनावृतस्थाने आहारादिकं कुर्वतः निर्ग्रन्थान् निर्ग्रन्थींश्च कश्चित् सागारी मा पश्यतु, इति विभाव्य चिलिमिलिका क्रियते, इति प्रतिपादितम् , साम्प्रतमनावृतस्थानप्रसंगाद् उदकतीरे स्थाननिषदनादिनिषेधं प्रतिपादयन्नाह-'नो कप्पइ....दगतीरंसि' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण बा दगतीरंसि चिट्ठित्तए वा निसीइत्तए वा, तुयट्टित्तए वा निदाइत्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए, उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिढवित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, काउस्सग्गं वा करित्तए, ठाणं वा ठाइत्तए ॥ सू० १९॥ छाया -नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा उदकतीरे स्थातुं वा निषत्तुं वा त्वग्वर्तयितुं वा निद्रायितुं वा प्रचलायितुं वा अशनं वा पानं वो खाद्य वा स्वाधं वा आहर्तुम्, उच्चारं वा प्रस्रवणं वा खेलं वा सिङ्घाणं वा परिष्ठापयितुम्, स्वाध्यायं वा कर्तुम्, धर्मजागरिकां वा जागरितुम्, कायोत्सर्ग वा कर्तुंम्, स्थानं वा स्थातुम् ।।सू. २०॥ चूर्णी-'नो कप्पई' इति । निर्ग्रन्थानां निर्ग्रन्थीनां च उदकतीरे स्थाननिषदनादि किमपि कार्य कर्तुं न कल्पते इति सूत्राशयः । तत्र किं किं न कर्त्तव्यम् ? इति प्रदर्शयति-'दकतीरंसि वा' उदकतीरे अत्र उदकशब्देन उदकस्थानं गृह्यते तेन उदकस्य नदीतडागादेः तीरम् उदकतीरम्, यत्राऽऽरण्यका ग्रामेयका वा पशवः मनुष्याः स्त्रियो वा जलार्थिनोऽवतरीतुकामा उत्तरीतुकामा वा तत्र स्थितं साधु दृष्ट्वा तिष्ठन्ति निवर्तन्ते भयोद्विग्ना वा भवन्ति, तथा यत्र स्थितं साधुं दृष्ट्वा मत्स्यकच्छपादयो जलचरास्त्रस्यन्ति बिभ्यति तादृशं स्थानमुदकतीरं कथ्यते, नतु यत्र जलं नीयते
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy