SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ AmAAAAAAAAAAM. चूर्णिमायावचूरी उ० १ सू० १६-१९ वसतिवासविधिः १५ मन्यस्थानाभावे, चिलिमिलिं कृत्वा च वस्तव्यम् । निर्ग्रन्थानां कल्पते, पुरुषत्वेन च नो हानिः ॥१७॥ __अवचूरी-'अव्वाउडद्वारे' इति । अप्रावृतद्वारे उपाश्रये निर्ग्रन्थी भिस्तत्र न वस्तव्यं न वासः कार्यः, स्त्रीत्वेन तत्र वसन्तीनां नानाविधजनदृष्टिपातादिसंभवात्, यत्र स्थाने ब्रह्मणि ब्रह्मव्रते रक्षा पुनर्दुर्लभा भवति तस्मादप्रावृतद्वारे निर्ग्रन्थीनां वासो निषिद्धः ॥१६॥ ____ अपवादे-विकाले विद्वत्यागतानामन्यस्थानाभावे एकद्विरात्रार्थ निवास आवश्यको भवेत्तदा तत्र चिलिमिलिं-वस्त्रादिना चिलिमिलिकां कृत्वा तत्र वस्तव्यम् । निम्रन्थानां च तत्र वासः कल्पते यतस्तेषां पुरुषत्वेन पुरुषशरीरत्वेन नो हानिः न काचिदपि हानिरतस्तेषां तादृशे उपाश्रये वासो विहित इति । निर्ग्रन्थानामप्येतदपवादिकं सूत्रम्, तेन अन्यस्थानाभावे साधूनां तत्र एकद्विरात्रार्थ वासः कल्पते, न तु ततः परमिति भावः ॥ सू० १७॥ पूर्व चिलिमिलिकया प्रावृते उपाश्रये निर्ग्रन्थ्यो वसन्ति तत्र रात्रौ मात्रकं विना कायिक्यादिव्युत्सर्जनार्थ बहुशो बहिर्निर्गमप्रवेशं कुर्वन्त्यो निर्ग्रन्थ्यो दुःखपूर्वकं निर्गच्छन्ति प्रविशन्ति च तस्मात् कायिक्यादिव्युत्सर्जनार्थ घटीमात्रकमावश्यकमिति घटीमात्रकधारणविधिप्रतिपादकं सूत्रमाह-'कप्पई' इत्यादि। सूत्रम्-कप्पइ निग्गंधीणं अंतोलित्तं घडिमत्तयं धारित्तए वा परिहरित्तए वा ॥ सू०१६॥ छाया-कल्पते निर्ग्रन्थीनां अन्तलिप्तं घटोमात्रकं धर्तुं वा परिहत्तुं वा ॥सू. १६ चूर्णी-कप्पई'-इति । कल्पते निग्रन्थीनां अन्तर्लिप्त-अन्तर् मध्ये लिप्तं श्लक्ष्णपदार्थलेपेन श्लक्ष्णीकृतं घटीमात्रकं घटी-लघुघटः, तत्संस्थानकं मात्रकं काष्ठपात्रं धत्तुं पार्वे स्थापयितुम्. परिहर्तुम् उपभोक्तुं कल्पते इति पूर्वेण सम्बन्धः । अन्तर्लिप्तमिति विशेषणं-अन्तर्लिप्ते श्लक्ष्णे पात्रे कायिक्यादिलेपसंश्लेषणाभावात् संमूर्छिमोत्पत्त्यभावप्रदर्शर्नार्थभिति--।। सू०१६॥ पूर्व निर्ग्रन्थीनां घटीमात्रकधारणं प्रोक्तं, तत्तु निम्रन्थानां न कल्पते, इति प्रदर्शयितुमाह'नो कप्पई' इत्यादि । ___सूत्रम्-नो कप्पइ निग्गथाणं अंतोलित्तं घडिमत्तयं धारित्तए वा परिहरित्तए वा ॥सू०१७॥ ___ छाया-नो कल्पते निर्ग्रन्थानामन्तर्लिप्तं घटीमात्रकं धर्तुं वा परिहत्तुं वा ॥सू. १७॥ चूर्णी- 'नो कप्पइ' इति । पूर्वोक्तमन्तर्लिप्तं घटीमात्रकं निर्ग्रन्थानां धर्नु परिहत्तुं वा न कल्पते । तेषां तद्भिन्नाकारकं सामान्यं काष्ठपात्रं कायिक्यादिनिमित्तं कल्पते, यतः साधूनां पात्रचतुष्टयं कल्पते तत्र त्रीणि पात्राणि अशनादिनिमित्तम् , चतुर्थ च कायिक्यादिनिमित्तं ते स्थापयन्तीतिघट्याकारकं मात्रकं तेषां न कल्पते, तदाकारावलोकनेन मनोविकारसंभवादिति भावः ॥सू०१७ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy