SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ० १ सू० १३-१५ वसतिवासविधिः १३ मध्ये-मध्ये आपणा भवन्ति स हट्टमार्ग इत्यर्थः, स च · एकपार्श्वन द्वाभ्यां वा पार्श्वभ्यां यत्र भवेत् तत्, अथवा यद् गृहं स्वयमेव आपणरूपं तद् अन्तरापणमुच्यते, यत्र एकेन द्वारेण आपणव्यवहारः क्रियते, द्वितीयेन तु द्वारेण पुनर्गृहकार्य विधीयते तद् गृहम् अन्तरापणम् , तस्मिन् । एतेषु पूर्वोक्तेषु उपाश्रयेषु निम्रन्थीनां वस्तुं न कल्पते । एतेषु उपाश्रयेषु वसन्तीनां निम्रन्थीनां जनसमुदायस्य गमनागमनबाहुल्यात् स्वाध्यायादि न सम्यग् जायते, तथा अनेकविधजनावलोकने परिणयनादिमहोत्सवाद्यवलोकने च पूर्वस्मृति संभवाच्चित्तवृत्तौ विकारसंभवः, कामुकजनद्वारा निर्ग्रन्थ्या अपहरणमपि संभवेत् , इत्यादिकारणैः संयमात्म-विराधनासंभवादेतादृशेषु उपाश्रयेषु निम्रन्थीनां वासः प्रतिषिद्धःः ॥१२॥ पूर्वोक्तेषु उपाश्रयेषु निम्रन्थानां वस्तुं कल्पते इति प्रदर्शयति-कप्पई' इत्यादि । सूत्रम्--कप्पइ निग्गंथाणं आवणगिहंसि वा जाव अंतरावणंसि वा वत्थए ॥सू०१३॥ छाया -कल्पते निग्रन्थानां आपणगृहे वा यावत् अन्तरापणे वा वस्तुम् ॥सू०१३॥ चूर्णी-'कप्पई' इति । कल्पते निर्ग्रन्थानाम् आपणगृहे वा यावत् अन्तरापणे वा, यावत् पदेन रथ्यामुखे वा शङ्गाटके वा चतुष्के वा चत्वरे वा, इति संग्रहः । साध्वीसूत्रे कथितेषु सर्वविधेषु उपाश्रयेषु साधूनां वस्तुं कल्पते, पुरुषत्वेनः तेषां दोषाभावात् ।। सू० १३ ॥ अत्राह भाष्यकारः-'आवणगिहाइएसुं' इत्यादि । भाष्यम्-आवणगिहाइएसुं, निग्गथीहि न तत्थ वसियवं । पुरिसाणं आवाओ, निग्गंथीणं भवेज्ज दोसढें ॥१४॥ निग्गंथाणं कप्पइ, पुव्वुत्तेसु य समग्गठाणेसु । तेसिं पुरिसत्तणओ, नो दोसा पुरिससंसग्गा ॥१५॥ छाया -आपणगृहादिकेषु निम्रन्थीभिर्न तत्र वस्तव्यं । पुरुषाणामापातो निम्रन्थीनां भवेद् दोषार्थम् ।१४। निर्ग्रन्थानां कल्पते पूर्वोक्तेषु च समग्रस्थानेषु । तेषां पुरुषत्त्वतो नो दोषाः पुरुषसंसात् ॥ १५॥ अवचूरी-'आवणगिहाइएसुं' इति । आपणगृहादिषु पूर्वोक्तेषु स्थानेषु निर्ग्रन्थीभिस्तत्र न वस्तव्यम्, यतस्तत्र पुरुषाणामनेकविधानामपशब्दादिवादिनामपि आपात आगमनं भवति स च निम्रन्थीनां स्त्रीजातित्वेन दोषाय भवतीति ॥१४॥ निर्ग्रन्थानां च पूर्वोक्तेषु समग्रस्थानेषु आपणगृहादिषु वस्तुं कल्पते, यतस्तेषां पुरुषत्वेन पुरुषसंसर्गात् नो-नैव केचिदपि दोषा भवेयुरिति ॥१५॥ पुननिर्ग्रन्थीनामुपाश्रयविधि प्रदर्शयति-'नो कप्पइ....अवंगुय.' इत्यादि ।
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy