SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पसूत्रे छाया -क्षेत्रे संकुचिते खलु निष्क्रमण तथा प्रवेशनमेकम् । तत्रैकत्र स्थितानां, गमनागमे च बहुदोषाः ॥१२॥ तस्मात् अनेकवगडा अनेकद्वाराणि भवन्ति यत्रैव । तत्रैव निवस्तव्यं, भिक्षासंशादिसुलभार्थम् ॥१३॥ अवचूरी -'खेत्ते' इति । क्षेत्रे संकुचिते खलु निश्चयेन यत्र निष्क्रमण तथा प्रवेशनं चैकं भवति तत्र तस्मिन् क्षेत्रे ग्रामादौ एकत्र स्थितानां निम्रन्थानां निर्ग्रन्थीनां च गमनागमने बहुदोषा बहवः दोषाः संभवन्ति ॥१२॥ तस्मात् कारणात् यत्र अनेका वगडा अनेकानि द्वाराणि च यत्रैव यस्मिन्नेव ग्रामादौ भवन्ति तत्रैव निर्ग्रन्थैः निर्ग्रन्थीभिश्च निवस्तव्यं निवासः कर्त्तव्यः, नान्यत्र । किमर्थमित्याहभिक्षासंज्ञादिसुलभार्थम् , तत्र-भिक्षा-भिक्षाचर्यार्थगमनं, संज्ञा-संज्ञाभूमौ गमनं तत आगमनं चैतद् द्वयमपि सुलभं भवति तदर्थ तत्र वस्तव्यम् , तत्र साधुसाध्वीनां परस्परं संपर्काभावादिति ॥१३॥ ____ अथ निम्रन्थीनां कीदृशे उपाश्रये वस्तुंन कल्पते ? इत्येवं प्ररूपयितुमाह-'नो कप्पइ निग्गयीणं' इत्यादि। सूत्रम्--नो कप्पइ निग्गंथीणं आवणगिहंसि वा रत्थामुहंसि वा, सिंघाडगंसि वा चउक्कंसि वा चच्चरंसि वा अंतरावर्ण सि वा वत्थए ॥सू० १२॥ छाया -नो कल्पते निर्ग्रन्थीनां आपणगृहे वा रथ्यामुखे वा शृङ्गाटके या चतुष्के वा चत्वरे वा अन्तरापणे वा वस्तुम् ॥ सू० १२॥ चूर्णी -'नो कप्पई' इति । नो न कल्पते तावत् निम्रन्थीनाम् आपणगृहे वा 'दुकान' इति प्रसिद्धे, यत् खलु गृहम् आपणमध्ये वर्तते, आपणैः समन्तात्परिक्षिप्तं भवति, अथवा मध्यभागे यद् गृहं द्वाभ्यामपि पार्श्वभ्यां यस्याऽऽपणा भवन्ति तद् आपणगृहं तस्मिन् , रथ्यामुखे वा रथ्या इति मार्गः, रथ्यायाः पार्श्वे यद् गृहं तद् रथ्यामुखम् । तच्च त्रिविधम्-रथ्याभिमुखम् १, रथ्याबहिर्मुखम् २, रथ्योभयतोमुखम् ३ । तत्र यद् गृहं रथ्यायाः पार्थे वर्त्तते तद् रथ्याभिमुखम् १, यस्य पृष्ठतो रथ्या वर्तते तद् रथ्याबहिर्मुखम् २, यस्यैकं द्वारं रथ्यायाः पराङ्मुखम् , एकं द्वारं च रथ्याया अभिमुखं भवेत् तत् रथ्योभयतोमुखम् ३ । अथवा यस्माद् गृहाद् रथ्या प्रवहति तद् रथ्यामुखमुच्यते, अथवा यस्य गृहस्य मुखं रथ्यायां राजमार्गे भवति तद् रथ्यामुखम् , तस्मिन् , तथा शृङ्गाटके वा शृङ्गाटकं तावत् त्रिकोणाकारः फलविशेषः, तदाकारेण यत्र मागों भवति तत्, मार्गत्रयमिलनस्थानमित्यर्थः, तस्मिन् शृङ्गाटकस्थिते गृहे । चतुष्के-चतुष्कं पुनश्चतुर्णा मार्गाणां संमिलनस्थानम् , यत्र चत्वारो मार्गा आगत्य मिलन्ति तत्स्थानं चतुष्कं व्यपदिश्यते, तस्मिन् चतुष्कस्थिते गृहे वा, चत्वरे वा-चत्वरं नाम यत्र षण्णां मार्गाणां संमेलनं भवति तत् , तस्मिन् चतुष्कस्थिते गृहे वा, अन्तरापणे वा-अन्तरापणस्तावत् यत्र अन्तरन्तो
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy