SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ बृहत्करूपसूत्रे छाया- - अथ ग्रामे वा यावत् राजधान्यां वा सपरिक्षेपे सबाहिरिके कल्पते निर्मन्थानां हेमन्तग्रीष्मेषु द्वौ मासौ वस्तुम् । अन्तः पकं मासं बहिरेकं मासम्, अन्तर्वसताम् अन्तर्भिक्षाचर्या, बहिर्वसतां बहिर्भिक्षाचर्या ॥ सू० ७|| ८ चूर्णी - ' से गांमंसि वा' इति । अथ ग्रामे वा यावत् राजधान्यां वा, ग्रामत आरम्य राजधानी पर्यन्तं सर्वत्र ग्रामादौ पूर्वप्रतिपादित स्वरूपे सपरिक्षेपे - परिक्षेपसहिते, सबाहिरिके परिक्षेपाद् बहिर्जननिवाससहिते निर्ग्रन्थानां हेमन्तग्रीष्मेषु ऋतुबद्धकालसंबन्धिषु अष्टसु मासेषु द्वौ मासौ मासद्वयपर्यन्तं वस्तुं कल्पते । पूर्वमेकमासं यावत् निवासः प्रोक्तः, अस्मिन् सूत्रे च द्वौ मासौ, इति प्रोक्तं तत्कथम् ? अत्राह – पूर्वसूत्रे सपरिक्षेपे सति बाहिरिकारहितत्वेन एकं मासमेव निवासः कथितः अत्र तु यद् ग्रामादि सबाहिरिकं भवेत्तत्र द्विमासमपि वस्तुं कल्पते, इत्येवं दर्शयति सूत्रकारः - अंतो इक इति, सबाहिरिके ग्रामादौ अन्तः - प्रामादिपरिक्षेपमध्ये एक मासं, बहिश्च एकं मासं यावत् वस्तुं कल्पते, तत्रापि अन्तर्वसता परिक्षेपान्तर्निवासं कुर्वतां निर्ग्रन्थानां अन्तरेव परिक्षेपमध्ये एव भिक्षाचर्या करणीया भवेत्, बहिः परिक्षेपाद्वहिर्भागे जनवसतौ वसत निर्ग्रन्थानां बहियाँमाद्वहिरेव बाह्यवसतावेव भिक्षाचर्या करणीया भवेत् इत्येष विशेषोऽत्र बोध्यः ॥ ग्रामाद्यन्तर्वसद्भिर्निर्ग्रन्थैर्मासकल्पे परिपूर्णे सति ग्लानादिकारणवशात्तदन्यत्र विहरणं कर्त्तु न शक्यते तदा द्वितीये मासे बाहिरिकायां संक्रमणं कर्त्तव्यम्, पीठफलकाद्यपि तत्रैव ग्रहीतव्यं नाभ्यन्तरतो बहिनेंतव्यम्, यदि बाहिरिकायां पीठफलकादि न लभ्यते तदा अन्तरुपाश्रयस्वामिनं पृष्ट्वा तदाज्ञया नेतुं कल्पते, न त्वनापृच्छ्येति । यद्यनापृच्छय नीयते तदा स्तेनाहृतादिनानाविधदोषसंभवः, संयमात्मविराधनाऽपि भवितुमर्हति ॥ सू०७ || पूर्व निर्ग्रन्थानामृतुबद्धकालसम्बन्धिनिवासविधिः प्रोक्तः, साम्प्रतं निर्ग्रन्थीनां स प्रोभ्यते'से गामंसि वा' इत्यादि । मूलम् - से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निम्गंथीणं हेमंतगिम्हासु दो मासे बत्थए | सू० ८ ॥ छाया- - अथ ग्रामे वा यावत् राजधान्यां वा सपरिक्षेपे सबाहिरिके कल्पते निर्मन्थोन हेमन्तग्रीष्मेषु द्वौ मासौ वस्तुम् ॥० ८ ॥ चूर्णी - ' से गामंसि वा' इति । अथ ग्रामे वा यावत् राजधान्यां सपरिक्षेपे अबाहिरिके बाह्यवसतिरहिते निर्ग्रन्थीनां ऋतुबद्धकाले अष्टमासरूपे द्वौ मासौ यावत् वस्तुं कल्पते । ननु निर्ग्रन्थानामेतादृशे ग्रामादौ एकं मासं यावदेकत्र वसनमनुज्ञातं, निर्ग्रन्थीनां च द्वौ मासौ इति कोऽत्र हेतु:, महाब्रतानि तु समानान्येव द्वयानाम् ? इत्यत्राह - इयानां महात्रतेषु समानेष्वपि तासां मासे मासे विहरणे स्त्रीशरीरत्वादनेके दोषाः समापतन्ति ततो भगवता निर्ग्रन्थीभ्यो द्विमासं यावदेकत्र निवासकरणमनुज्ञातमिति ॥सू० ८ ॥ ܕ
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy