SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाष्यावचूरी उ०५ सू० ५२ निर्ग्रन्ध्याः पुलाकभक्ताहारविधिः १४३ छाया - निर्ग्रन्ध्या च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टया अन्यतरत् पुलाकभक्तं प्रतिगृहीतं स्यात्, सा च संस्तरेत् कल्पते तस्याः तद्दिवसं तेनैव भक्तार्थेन पर्युषितुम् नो तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपातप्रत्ययेन प्रवेष्टुम्, सा च नो संस्तरेत् एवं तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपातप्रत्ययेन प्रवेष्टुम् ॥ सू० ५२ ॥ ॥ पञ्चमोद्देशः समाप्तः ॥ ५ ॥ " चूर्णी - 'निग्गंथीए य' इति । निर्ग्रन्ध्याश्च साध्व्याः गाथापतिकुलं गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन अनुप्रविष्टया - प्रवेशं कृतवत्या यदि अन्यतरत् - बहूनां मध्यादेकम्, पुलाकं त्रिविधं भवति - धान्यपुलाकम् गन्धपुलाकम्, रसपुलाकं चेति, तत्र धान्यपुलाकं वल्लादि, गन्धपुलाकम् - एलालवङ्गजातिफलादीनि यानि उत्कटगन्धानि द्रव्याणि तद्बहुलं भक्तम्, रसपुलाकम् क्षीर - द्राक्षा - खर्जूरादिरसरूपम् एषां त्रयाणां पुलाकानां मध्याद् एकतरत् पुलाकभक्तम्, पुलाकम् असारमुच्यते यत आहारितानि एतानि त्रीण्यपि पुलाकानि निर्ग्रन्थीं संयमसाररहितां कुर्वन्ति प्रवचनं वा निस्सारं कुर्वन्ति ततस्तान प्रोच्यन्ते, एषां मदजनकस्वभावत्वात् । एतानि पुलाकानि निर्ग्रन्थीं मदविह्वलां कुर्वन्ति सा संयमसाररहिता भवति । तेषां कदाचिद् ग्रहणे तद्विधिं प्रदर्शयति - तत् पूर्वोक्तं पुलाकभक्तं कदाचित् - अनाभोगादिकारणात् प्रतिगृहीतं स्वीकृतं स्यात् तदा यदि साच निर्ग्रन्थी संस्तरेत् तेन प्रतिगृहीतेन पुलाकभक्तेन निर्वाहं कुर्यात् निर्वोढुं समर्था भवेत् तदा कल्पते तस्याः तं दिवसं तेनैव पूर्वानीतेनैव भक्तार्थेन पुलाकभक्तेन पर्युषितुम् - तं दिवसं व्यत्येतुं कल्पते किन्तु नो-नैव तस्याः कल्पते द्वितीयमपि जिह्वालौल्येन द्वितीयवारमपि गाथापतिकुलं पिण्डपातप्रत्ययेन तद्ग्रहणवाञ्छया प्रवेष्टुम् । अथ सा च निर्ग्रन्थी कदाचित् तपश्चरणग्लानत्वादिना बुभुक्षाप्राचुर्यप्रसङ्गात् पूर्वानीतेन पुलाकभक्तेन भुक्तेन नो संस्तरेत् क्षुधापरीषहसहन सामर्थ्याभावात् तं दिवसं व्यत्ये समर्था न भवेत् तदवस्थायां तस्या निर्ग्रन्ध्याः कल्पते द्वितीयमपि वारं गाथापति कुलं – गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन प्रवेष्टुं गृहस्थगृहे प्रवेशं कर्त्तुं कल्पते, तदिवसनिर्वाहसामर्थ्ये सति द्वितीयवारं भिक्षार्थं न गच्छेदिति भावः । एकवार - गृहीत पुलाकभोजनेन यथाशक्य निर्वाहसामर्थ्ये सति जिह्वालोलुपतया पुनरपि द्वितीयवारं भिक्षार्थ गृहस्थगृहे गच्छेत् तदा निर्ग्रन्ध्या आज्ञाभङ्गादयो दोषा भवन्ति, संयमात्मविराधना च भवेत्, तन्त्र स्त्रियाः सुकुमालप्रकृतित्वेन धान्यपुलाके भुक्ते उदरे वातप्रकोपः संजायते, गन्धपुलाके मुक्ते "
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy