SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पस्ले निष्कारणं शरीरसौन्दर्याद्यर्थ सुगन्धिद्रव्यजातेन गात्राणामुपलेपनमुद्वर्त्तनं च मुनीनां न कल्पते, तादृशावस्थायां कारणे सति यतनया कल्पते इति भावः ॥ सू० ५०॥ __ पूर्व निर्ग्रन्थनिर्ग्रन्थीनां निष्कारणं गात्राभ्यङ्गनादि निषिद्धम्, सम्प्रति निष्कारणं गात्राभ्यङ्गनादिकारी कारणे चायतनया करणशीलः परिहारतपःप्रायश्चित्तभागी भवतीति परिहारकल्पसूत्रमाह- 'परिहारकप्पट्ठिए' इत्यादि । सूत्रम्-परिहारकप्पट्ठिए भिक्खू बहिया थेराण वेयावडियाए गच्छेज्जा, से य आहच्च अइक्कमिज्जा, तं च थेरा जाणिज्जा अप्पणो आगमेणं अन्नेसि वा अंतिए सुच्चा, तो पच्छा तस्य अहालहुस्सए नामं ववहारे पट्टवेयवे सिया ॥ सू०५१॥ छाया-परिहारकल्पस्थितो भिक्षुः बहिः स्थविराणां वैयावृत्त्याय गच्छेत् , स च आहत्य अतिक्रामेत् , तच्च स्थविराः जानीयुः आत्मन आगमेन, अन्येषां वा अन्तिके श्रुत्वा, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥सू०५१॥ चूर्णी-'परिहारकप्पट्टिए' इति । परिहारकल्पस्थितः परिहारतपो वहमानः भिक्षुः श्रमणः बहिः-स्थितस्थानादन्यत्र ग्रामनगरादौ, तत्रैव वा उपाश्रयान्तरे स्थितानां स्थविराणां वैयावृत्त्याय- वैयावृत्त्यनिमित्तम् उपलक्षणाद् नास्तिकादिवादिजयार्थ वा तादृशकार्यक्षमान्यश्रमणाभावे आचार्योपदिष्टो गच्छेत् , सच तत्र आहत्य-कदाचिद् अनिवार्यकारणवशाद् अज्ञानाद्वा अतिक्रामेत्-प्रतिज्ञाततपोविशेषम् उल्लङ्घयेत् तच्च तस्यातिक्रमणं दोषसेवनरूपम् स्थविराः येषां वैयावृत्त्यार्थमागतस्ते प्रधानाचार्याः आत्मनः स्वस्य आगमेन-आगमोक्तावध्यादिज्ञानेन, वा-अथवा अन्येषाम्-तत्पार्श्वस्थान्यमुनीनां गृहस्थानां वा अन्तिके समीपे श्रुत्वा जानीयुः, तस्यातिक्रमणं स्वस्य ज्ञानविषयीकृतं स्यात् तदा ततः पश्चात् तज्ज्ञानानन्तरं तस्य वैयावृत्त्यार्थमागतस्य परिहारकल्पस्थितस्य श्रमणस्य 'अहालहुस्सए नाम' इति यथालघुस्वकनामकः यथालघुस्वकः यथासंभवं स्तोकप्रायश्चित्तरूपः व्यवहारः प्रस्थापयितव्यः दातव्यः स्यात् । तस्मै यथाशक्यलघुप्रायश्चित्तं दातव्यमिति भावः ॥ सू० ५१ ॥ .. पूर्व परिहारकल्पसूत्रं कथितम्, सम्प्रति भक्तप्रसङ्गात् निर्ग्रन्थीनां पुलाकभक्तसेवनविधिमाह-'निग्गंथीए य' इत्यादि । सूत्रम्-निग्गंथीए य गाहावइकुलं पिंडवायपडियाए अणुप्पविटाए अन्नयरे पुलागभत्ते पडिग्गाहिए सिया, सा य संथरिज्जा कप्पइ से तदिवसं तेणेव भत्तटेणं पज्जोसवित्तए, नो से कप्पइ दुच्चंपि गाहावइकुलं पिंडवायपडियाए पविसित्तए वा, सा य नो संथरिज्जा एवं से कप्पई दुच्चं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए ॥सू०५२॥ ॥ पंचमोइसो समत्तो ॥५॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy