SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्रे छाया-नों कल्पते निम्रन्थ्या एकाकिन्या प्रामानुग्राम द्रोतुं वा वर्षावासं वा वस्तुम् ॥ सू. १८॥ चूर्णी- एवमेव एकाकिन्या निम्रन्थ्या प्रामानुग्रामम् एकस्माद् ग्रामाद् प्रामान्तरं द्रोतुम् विहर्तुम् , तथा वर्षावासं चातुर्मास्यनिमित्तं वस्तुं न कल्पते ॥ सू० १८॥ पूर्व निर्ग्रन्ध्या एकाकिनीत्वं निषिद्धम् , सम्प्रति श्रमणानामचेलकत्वस्य भगवता प्रतिपादितत्वेन काचित् श्रमणी चापि अचेलकत्वं कर्तुमिच्छेदतस्तासामचेलकत्वं प्रतिषेधयन्नाह'नो कप्पई' इत्यादि । सूत्रम्-नों कप्पइ निग्गंथीए अचेलियाए होत्तए ॥ सू० १९ ॥ छायानो कल्पते निर्ग्रन्थ्या अचेलिकया भवितुम् ॥ सू० १९॥ ची-नो कप्पई' इति । नो कल्पते निर्ग्रन्थ्याः श्रमण्या अचेलिकया-चेलः वस्त्रं, न चेलो वस्त्रं यस्याः सा अचेला, अचेला एव अचेलिका वस्त्रवर्जिता, तया वस्त्ररहितया भवितुम्-अवस्थातुं न कल्पते इति पूर्वेण सम्बन्धः, साध्व्या वस्त्ररहितया न भवितव्यम्-साध्वी वस्त्ररहिता न भवेदिति भावः । अनेन साध्वीनां जिनकल्पो निषिद्ध इत्यवगन्तव्यम् , तासां तादृशसंहननाभावात् । तरुणस्तेनकादिकृतोपसर्गजन्ये भये उपस्थिते तन्निवारणसामर्थ्याऽभावात्साध्वी वस्त्रवर्जिता भवितुं न शक्नोतीति तस्या अचेलकत्वं भगवता निषिद्धम् । वस्त्ररहितां साध्वीं दृष्ट्वा स्त्रीशरीरस्य पुरुषमोहकस्वभावात् तरुणादिश्चतुर्थसेवनादिकं कत्तु साहसं कुर्यात्, एवं यदा कुलटाऽपि तावद् व्यभिचारिणी अपि वस्त्ररहिता भवितुं नेच्छति तदा किमुत वक्तव्यं कुलीनानां साध्वीनां विषये, यत् न ताः कदापि वस्त्ररहिता भवितुं वाञ्छन्तीति तात्पर्यम् । पुनश्च अचेलकता प्रतिपन्नानां श्रमणीनां लोकापवादनिन्दितानां तीर्थोच्छेदो भवति, वृत्तिश्च तासां दुर्लभा भवति । एवं विवस्त्रां श्रमणीमवलोक्य लोको वदति-"स्त्रीणां लज्जा विभूषणम्" इति वचनात् कुत्र गता आसां लज्जा ? इति प्रव्रज्यां ग्रहीतुम् अभिमुखीभूतानामपि प्रव्रज्याग्रहणतः परावर्तनं स्यात् । अन्यो वा कश्चित् प्रव्रज्याग्रहणतस्ता निवारयेत् । लोकास्तत्कुटुम्बिजनान् एवं कथयन्ति यत्युष्मदीया दुहितरः स्नुषा वा याः पूर्व चन्द्रसूर्यकिरणैरस्पृष्टगात्रा आसन् ताः सम्प्रति प्रत्रजितावस्थायां सर्वजनदृष्टिस्पृष्टगात्राः सर्वलोकपुरतो विवस्त्रा हिण्डन्ते, कीदृशी चैषा प्रव्रज्या ?, लोकैरेवमुक्ते तत्कुटुम्बिनो भूयस्ताः स्वगृहमानयन्ति । अनेन प्रवचनोड्डाहोऽवश्यम्भवी । इत्याधनेकदोषसंभवात् साध्वीभिरचेलाभिने भवितव्यमिति भावः ॥ सू० १९॥ पूर्व निर्ग्रन्थीनामचेलकत्वं निषिद्धम्, सम्प्रति तासां पात्ररहितत्वं प्रतिषेधयितुमाह'नो कप्पई' इत्यादि। सूत्रम्-नो कप्पइ निग्गंथीए अपाइयाए होत्तए । सू० २०.॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy