SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाच्याक्चूरी उ० ५ सू० १५-१९ निर्ग्रन्थया पकाकिनीत्वादिमर्यादा १२९ पक्षिजातीयो वा प्राणी - हंसमयूरादिः यदि अन्यतरस्मिन् कस्मिंश्चित् श्रोतसि - योनि कक्षाजघनादिसन्धिरूपे विवरे अवगाहेत स्वीयं किमपि अङ्गं प्रवेशयेत्, तच्च योन्यादौ वानरादीनामङ्गावगाहनं स्वादयेत् ' कीदृशमिदं सुखदमवगाहनम्' इत्येवमनुमोदयेत् - तदवगाहनेन मनसि सुखमनुभवेत् तदा सा निर्ग्रन्थी मैथुनप्रतिसेवनप्राप्ता - अनासेवितमैथुनाऽपि मैथुनसेवनजन्यदीपा - पन्ना सती आपद्यते चातुर्मासिकमनुद्घातिकं प्रायश्चित्तम् ॥ सू० १४ ॥ पूर्वं ब्रह्मचर्यव्रतविषया दोषाः प्रतिपादिताः, ते च दोषाः प्राय एकाकिन्याः संभवन्तीलि सम्प्रति निर्ग्रन्थया एकाकिन्याः स्थित्यादिनिषेधविषयकं सूत्रचतुष्टयं प्रतिपाद्यति- 'नो कप्पर निग्गंथीए' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथीए एगाणियार होत्तए ॥ सू० १५ ॥ छाया - नो कल्पते निर्ग्रन्ध्या एकाकिन्या भवितुम् ॥ सू० १५ ॥ चूर्णी 'नो कप' इति । नो कल्पते निर्ग्रन्ध्या एकाकिन्या असहायया भवितुम्, निर्ग्रन्थ्या एकाकिन्या कदापि न भवितव्यम् स्त्रीशरीरस्य पुरुषस्पृहणीयत्वेन दृढसंहननधृतिबलादिराहित्येन च बलात्कारादिसद्भावे ब्रह्मचर्यव्रतभङ्गदोषप्रसङ्गात् ॥ सू० १५ ॥ सूत्रम् - नो कप्पइ निग्गंथीए एगाणियाए गाहावइकुलं पिंडवायपडिया निक्खमित्त वा पविसित्तए वा ॥ सू० १६ ॥ छाया--नो कल्पते निर्ग्रन्थया एकाकिन्या गाथापतिकुलं पिण्डपातप्रत्ययेन निष्कमितुं वा प्रवेष्टुं वा ॥ सू० १६ ॥ चूर्णी - एवम् एकाकिन्या गाथापति कुलं - गृहस्थगृहं पिण्डपातप्रत्ययेन आहारादिग्रहणनिमित्तं निष्क्रमितुम् उपाश्रयाद् गृहस्थगृहे भक्तपानाद्यर्थ निस्सर्त्तुम्, तथा प्रवेष्टुं गृहस्थगृहे प्रवेशं कर्त्तुम् न कल्पते ॥ सू० १६॥ सूत्रम् - - नो कप्पर निग्गंथीए एगाणियाए बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्त वा पविसित्तए वा ॥ सू० १७ ॥ छाया - नो कल्पते निर्ग्रन्ध्या एकाकिन्या बहिर्विचारभूमिं वा विहारभूमिं घा निष्क्रमितुं वा प्रवेष्टुं वा ॥ सु० १७ ॥ चूर्णी - एवम् एकाकिन्या बहिः उपाश्रयाद्वहिः विचारभूमिं संज्ञाभूमिम् निष्क्रमितुं वा उपाश्रयात्, प्रवेष्टुं वा संज्ञाभूमौ न कल्पते, तथा विहारभूमिं स्वाध्यायादिभूमौ वा निष्क्रमितुम् उपाश्रयात्, प्रवेष्टुम् - स्वाध्यायभूमौ एकाकिन्या न कल्पते ॥ सु० १७॥ सूत्रम् - नो कप्पइ निग्गंथीए एगाणियाए गामाणुगामं दृइज्जित्तए वा वासावासं वा वत्थए | सू० १८ ॥ १७
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy