SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११६ बृहत्कल्पसूत्रे " मारोहयेत् तेनावतारिता जनाः प्रद्वेषं कुर्युः, श्रमणा उत्तरिष्यन्तीति कृत्वा संप्रस्थितां नावं पुनरावर्त्तयेत्, श्रमणान् वाऽवलोक्य परतटाद् नावमानयेत् तत्र ये जनास्तावद् नावमारूढा अपि जलमध्ये पूर्वतटे वा अवतारितास्ते नाविकं प्रति श्रमणान् प्रति वा प्रद्वेषमावहन्तोऽधिकरणं वा कुर्युः, जले तटे वा तिष्ठन्तस्ते अकायहरितकायादीनां विराधनां कुर्वन्ति, इत्यादयोsनेके दोषाः श्रमणानां संपद्यन्ते तस्माद् भगवता कारणं विना नघुत्तरणं श्रमणानां निषिद्धमिति ॥ सू० ३२ ॥ पूर्वसूत्रे गङ्गादिपञ्चनदीनां मासमध्ये विशेषोत्तरणेऽपवादसूत्रमाह - ' अह पुण' इत्यादि । सूत्रम् - अह पुण एवं जाणिज्जा एरवई कुणालाए जत्थ चक्किया एगं पायं जले किच्चा एग पायं थले किच्चा एवं से कप्पइ अंतो मासस्स दुक्खत्तो वा तिक्खुत्तो वा उत्तरित्त वा संतरितए वा, एवं नो चक्किया एवं णं नो कप्पड़ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरितए वा संतरितए वा ॥ सू० ३३ ॥ छाया -- अथ पुनरेवं जानीयात् - पेरावती कुणालायाः यत्र शक्नुयात् एकं पादं जले कृत्वा एकं पादं स्थले कृत्वा एवं खलु कल्पते अन्तो मासस्य द्विःकृत्वो वा त्रिः कृत्वो वा उत्तरीतुं वा संतरीतुं वा एवं नो शक्नुयात् एवं खलु नो कल्पते अन्तो मासस्य द्विकृत्वो वा त्रिःकृत्वो वा उत्तरीतुं वा संतरीतुं वा ॥ सू० ३३ ॥ चूर्णी - 'अह पुण' इति । अथ - यदि पुनरेवं वक्ष्यमाणरीत्या जानीयात् ऐरावती नाम नदी या कुणालाया नगर्याः समीपे जङ्घार्द्धप्रमाणेन उद्वेधेन प्रवहति तस्याम् एतादृश्यामन्यस्यां वा नद्याम् कस्यामित्याह - ' जत्थ' इति यत्र ' चक्किया' इति शक्नुयात् एकं पादं जले कृत्वा जले स्थापयित्वा एकं पादं स्थळे - जलोपरि कृत्वा एवं णं एवं खलु यत्रोत्तरीतुं शक्नुयात् तत्र तादृश्यां नद्यां कल्पते निर्ग्रन्थनिर्ग्रन्थीनां अन्तो मासस्य मासमध्ये द्विः कृत्वो वा द्विवारम् त्रिः कृत्व वा त्रिवारम् उत्तरीतुं वा उल्लङ्घयितुं पारं गन्तुमित्यर्थः, संतरीतुं वा पुनः प्रत्यागन्तुं वा कल्पते इति सम्बन्धः, किन्तु यत्र तावद् एवम् उक्तरीत्या एकं पादं जले कृत्वा एकं पादं स्थले कृत्वा उत्तरीतुं 'नो चक्किया' इति नो शक्नुयात् एवम् एतादृश्यां परिस्थितौ पूर्वोक्तरीत्या उत्तरणानुपाये खलु नो कल्पते श्रमणश्रमणीनाम् अन्तो मासस्य मासाभ्यन्तरे द्विः कृत्वो वा त्रिः कृत्वो वा उत्तरीतुं वा संतरोतुं वेति । अत्रदं बोध्यम् - ऐरावती खलु सा नदी या कुणालानगर्याः समीपेऽर्द्धयोजनविस्तीर्णा वहति सा चोद्वेधेन जङ्घार्द्धप्रमाणा वहति, तस्यां जलस्थलयोः पादकरणेन उत्तरीतुं शक्यते, स्थलपदेनात्र जलोपरिभागस्य ग्रहणं भवति यस्मात् एकं पादं जलबहिर्भागे उपरि आकाशप्रदेशे कर्त्तुं शक्यते इति, या वा इदृशी अन्यापि नदी भवेत्तस्या - मप्येवंरीत्या उत्तरीतुं कल्पते । यत् पूर्वोक्तासु महानदीषु उद्वेधाधिक्येन एवं विधिना उत्तरीतुं द्वित्रिवारं सन्तरणं निषिद्धम्, सम्प्रति नदी -
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy