SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पसूत्रे १०६ कल्पते तस्य अन्यं गणं संभोगप्रत्ययेन उपसंपय विहतुम्, यदि यत्र औत्तरिकं प्रधानं धर्मविनयं न लभेत एवं धर्मविनयस्याऽलाभे अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहत्तु नो कल्पते इति सूत्राशयः ।। सू० २४ ॥ पूर्वं गणावच्छेदकस्य संभोगनिमित्तं गणान्तरगमने विधिः प्रतिपादितः, साम्प्रतम् आचार्योपाध्यायस्य तद्विधिमाह - 'आयरियउवज्झाए य' इत्यादि । सूत्रम् - आयरियउवज्झाए य गणाओ अवक्कम्म इच्छेज्जा अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरितए णो से कप्पर आयरियउवज्झायत्तं अणिक्खिवित्ता अण्णं गणं संभोगपडियाए, उवसंपज्जित्ता णं विहरित्तए, कप्पइ से आयरियउवझायत्तं णिक्खिवित्ता अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, नो से कपर अणापुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं गणं संभोगपडियाए उपसंपज्जित्ताणं विहरित्तए, कप्पर से आपुच्छित्ता आयरियं वा जाव गणाबच्छेयगं वा अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, ते य से वियरेज्जा एवं से कप्पर अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित, जत्थुत्तरियं धम्मविणयं लभेज्जा एवं से कप्पइ अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, जत्थुत्तरियं धम्मविणयं नो लभेज्जा एवं से नो कप्पइ to गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित || सू० २५ ॥ छाया - आचार्योपाध्यायश्च गणाद् अपक्रम्य इच्छेत् अभ्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तु नो तस्य कल्पते आचार्योपाध्यायत्वम् अनिक्षिप्य अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्त्तम्, कल्पते तस्य आचार्योपाध्यायत्वं निक्षिप्य अन्यं गणं संभोग - प्रत्ययेन उपसंपद्य विहर्तुम्, नो तस्य कल्पते अनापृच्छ्य आचार्य वा यावत् गणावच्छेदकं वा अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम्, कल्पते तस्य आपृच्छ्य आचार्य वा यावत् गणावच्छेदकं वा अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् ते च तस्य वितरेयुः एवं तस्य कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्त्तम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यं गणं संभोगप्रत्येन उपसंपद्य विहर्तुम्, यत्रौत्तरिकं धर्मविनयं लभेत एवं तस्य कल्पवे अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम्, यत्रौत्तरिकं धर्मविनयं नो लभेत एवं तस्य नो कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपद्य बिहर्त्तुम् ॥ स्० २५ ॥ चूर्णी - 'आयरियउवज्झाए य' इति । इदमाचार्योपाध्यायसूत्रं संभोगप्रत्ययमधिकृत्य गणावच्छेदकसूत्रवदेव सर्वं व्याख्येयम्, नवरं गणावच्छेद पदस्थानेऽस्मिन् सूत्रे आचार्योपाध्यपदमुच्चारणीयम्, शेषं सर्वं पूर्वसूत्रवदेवेति भावः ॥ सू० २५ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy