SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्याऽवचूरो उ० ४ सू० ३-९ प्रव्राजनाद्ययोग्यशिष्यस्वरूपम् ८९ छाया-त्रयः अनवस्थाप्याः प्राप्ताः, तद्यथा-साधर्मिकाणां स्तैन्यं कुर्वाणः, अन्यधार्मिकाणां स्तैन्यं कुवार्णः, हस्तातालं ददत् ॥ सू० ३॥ चूर्णी-'तो' इति । त्रयः अग्रे वक्ष्यमाणस्वरूपाः तावत् अनवस्थाप्याः अपराधविशेषसमाचरणेन तत्क्षणादेव पुनव्रतेषु अवस्थापयितुम् अयोग्याः प्रज्ञप्ताः, कथिताः तीर्थकरगणधरादिभिराख्याताः, के ते ? इत्याह-'तंजहा' इत्यादि, तद्यथा ते यथा-साधर्मिकाणां समानो धर्मो येषां ते सधर्माणः, त एव साधर्मिकाः समानो धर्मो वाऽस्ति येषामिति साधर्मिकाः श्रमणाः श्रमण्यो वा तेषां 'तेणं' स्तैन्यं स्तेनस्य भावः कर्म वा स्तैन्यं चौर्यम्-तत्सत्कस्य उत्कृष्टोपधेः शिष्यादेर्वा अपहरणं 'करेमाणे' कुर्वाणः स्वयं कुर्वन् उपलक्षणात् अन्यद्वारा कारयन् , कुर्वन्तमन्यं वाऽनुमोदमानः साधुः अनवस्थाप्यो भवतीति भावः १ । 'अन्नधम्मियाणं' अन्यधार्मिकाणाम् अन्यो जिनोक्तातिरिक्तो धर्मो येषां ते अन्यधर्माणः, यद्वा अन्यश्चासौ धर्मश्च अन्यधर्मः, सोऽस्ति येषामिति अन्यधर्माणः, मत्वर्थे इकण्प्रत्यये अन्यधार्मिकाः-दण्डिशाक्यादयो गृहस्था वा तेषां सत्कस्य तदधीनस्य उपध्यादेः स्तैन्यं कुर्वाणः साधुरनवस्थाप्यो भवति २ । तृतीयः 'हत्थादाणं दलमाणे' हस्तातालं ददत् , हस्तातालम् हस्तेन हस्तस्य अन्यवस्तुनो वा आताडनं हस्तातालः तं ददत्-कुर्वन् उपलक्षणात् यष्टिमुष्टिलकुटादिभिरात्मानं परं प्रहरन् किञ्चिद्वस्तुजातं वा ताडयन् साधुरनवस्थाप्यो भवति, स अनवस्थाप्यप्रायश्चित्तभागी भवति, तत्प्रायश्चित्तस्यानवस्थाप्याभिधानात् ॥ सू० ३ ॥ ___पूर्वमनवस्थाप्यः प्रोक्तः, स च सद्योऽनाचरिततपोविशेषो भावलिङ्गरूपेषु महाव्रतेषु न स्थाप्यतेऽतोऽसौ अनवस्थाप्यः प्रोच्यते, अयं पूर्वसूत्रे वर्णितः । तत्प्रसङ्गात् पण्डकादिविविधेऽपि द्रव्यभावलिङ्गे स्थापयितुं न योग्यो भवतीत्यत्र पण्डकादिः प्रतिपाद्यते-'तओ नो कप्पंति' इत्यादि । सूत्रम् -तओ नो कप्पति पव्वावित्तए तंजहा-पंडए १, वाइए २, कीबे ३, ॥सू०४॥ एवं मुंडावित्तए ॥ सू० ५॥ सिक्खावित्तए ॥सू० ६॥ उवट्ठावित्तए ॥ सूत्र ७॥ संभुंजित्तए ॥ सू० ८॥ संवासित्तए ॥ सू० ९॥ छाया-त्रयो नो कल्पन्ते प्रव्राजयितुम् , तद्यथा-पण्डकः १ वातिकः २, क्लीबः३ ॥सू० ४॥ एवं मुण्डापयितुम् ॥सू० ५॥शिक्षापयितुम् ॥ सू० ६॥ उपस्थापयितुम् ॥ सू०७॥ संभोक्तुम् ।।सू० ८॥ संवासयितुम् ॥ सू. ९॥ चूर्णी-'तो' इति । त्रयो वक्ष्यमाणाः पुरुषास्तावत् नो कल्पन्ते, किमित्याह-'पव्वावित्तए' प्रव्राजयितुं प्रव्रज्यां ग्राहयितुं दातुं न योग्या इत्यर्थः, के ते ? इत्याह-'तंजहा' तद्यथा-ते यथा-पण्डकः जन्मनपुंसकः १, वातिकः वातूजः वातरोगी–वेदोदयसहनाऽक्षमः २, क्लीबः असमर्थः कातर इत्यर्थः, क्लीबस्तावत् दृष्टि-शब्दा-ऽऽदिग्ध-निमन्त्रणक्लीबभेदाच्चतुर्विधः, १२
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy