SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ कान् यथारुवि भुक्त्वा अवशिष्ठमोदकः पात्रं पूरविरका उपाश्रये समागतः । प्राभातिके चावश्यके--'एवंविषः स्वप्नो मया दृष्टः' इति प्रकटितवान् , ततश्च प्रभाते मोदकपरिपूर्ण पात्रं दृष्ट्वा आधाति यदयं स्त्यानििमद्रावामिति २ । कुम्भकारदृष्टान्तो यथा-कश्चित् कुम्भकारः वापि गच्छे प्रबजितः, तस्य कदाचिद् रात्री त्यामद्धिनिद्रा संजाता, स च पूर्वाचरित्तमृत्तिकापिण्डच्छेदनाभ्यासादुपाश्रयान्मिर्गत्य मृत्तिकासनी गत्वा तत्रतो मृत्तिकापिण्डा आनीय उपाश्रये स्थापिताः, प्रभाते तान् दृष्ट्वाऽऽचार्येण ज्ञातं यदय त्यानद्धिनिद्रावानिति ३ । दन्तदृष्टन्तो यथाकश्चित् श्रमणः गहस्थावस्थायामभिमुसमापतता हस्तिना आक्रान्तः पलायमामः कथश्चिदुग्मुक्तः स उदीर्णस्त्यानर्द्धिरुत्थाय गजशालायां गॅस्या हस्तिदन्तौ उत्पाट्य उपाश्रयस्य बहिः प्रदेशे संस्थाप्य पुनरपि सुप्तः । प्रमाते स्वप्नमालोचितवान् यदहं स्वप्ने हस्तिदन्तौ उत्पाटितवान् प्रकटितवांश्च स्वप्नम्, तत आचार्य उपाश्रयबहिःप्रदेशे हस्तिदन्ता विलोक्य निर्णीतवान् यदयं स्त्यानर्द्धिनिद्रावानिति ४ । वटशाखामअनदृष्टान्तों यथा-कश्चित् श्रमणो भिक्षार्थ पर्यटन् कुत्रचित् मध्यमार्गवत्तिन एकस्य क्रस्य शाखया शिरसि आघट्टितः सन् अत्यन्तं परितप्तान्तः करणो कटवृक्षोपरि प्रद्वेषमुफ्गतरसदध्यक्सायपरिणतश्च प्रसुप्तवान् । ततः उदीर्णस्त्यानर्द्धिश्चोत्थाय तत्र गत्वा वटवृक्षमुन्मूल्य तदीयशाखामानीयोपाश्रयोपरि स्थापितवान् , प्रभाते चावश्यककायोत्सर्गत्रिके कृते सति पूर्वोक्तरीत्या आचार्यान् प्रति स्वप्नमालोचितवान् । तत आचार्याः प्रभाते दिगवलोकनं कुर्वन्तोभ्यत आनीय संस्थापिता वटवृक्षशाखां दृष्ट्वा निर्णीतवन्तः यदयं सस्थानईिनिद्रावानिति ५ । एतादश स्थानईिमन्त श्रमणमेवं प्रज्ञापयेत्-सौम्य ! साधुलिङ्गं त्यज, तव चारित्रं नास्तीति सानुनयमाचार्येण सस्य लिङ्ग ल्याजयेदिति । म्याख्यातः प्रमत्तपाराञ्चिकः, सम्प्रति अन्योन्यकुर्वाणो व्याख्यायते-अन्योन्यं कुर्वाण: पाराञ्चिक इति, अन्योन्यं परस्परं यत् करणं मुखपायुप्रभृतिप्रयोगेणंऽब्रह्मसेवनं तत्कुवार्णः, साधुः साधुना सह मुखपायुप्रयोगेण मैथुनचेष्टा कुर्वाणः पाराञ्चिकः, साध्वी साध्या सह हस्तपादाङ्गुलिकर्मादिप्रयोगेण मैथुनचेष्टां कुर्वती पाराञ्चिका भवतीति विज्ञेयम् । यदि केनाऽपि. साधुना बुद्धिवैपरीत्यक्शाद् एतदाधरिस भवेत्, ततः शुभपरिणामोदयेन पश्चात्तापसंतप्तान्तःकरणो विशिष्टगुणवान् यदि 'पुनरेसादृशमपराधं न करिष्यामि' इति सद्भावनया पुनरकरणाय कृतनिश्चयो भवेत्तदा स तपःपाराञ्चिकः कथ्यते इति भावः । भा० गा० ५ ॥ सू० २ ॥ पूर्वसूत्रे पाराचिकप्रायश्चितं प्रतिपादितम् , सम्प्रति अनवस्थाप्यप्रायश्चितं प्ररूपयितुमाह'तो अणकट्टप्पा' इत्यादि । सूत्रम्-तो अणवहप्पा पण्णचा, जहा-साहम्मियाणं० तेणं करेमाणे, अन्नधम्मियाण तेणं करेमाणे, इत्यादालं दलमाणे ॥ सू० ३॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy