SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १५ सू० ७३-७७ शून्यगृहादिषु-उच्चारादिपरिष्ठापननि० ३५५ छाया-यो भिक्षुः शून्यगृहे वा शून्यशालायां वा भिन्नगृहे वा भिन्नशालायां वा कूटागारे वा कोष्ठागारे वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥७३॥ चूर्णिः- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सुन्नगिहंसि वा' शून्यगृहे वा यत्र गृहे न कोऽपि वसति तादृशगृहे 'सुन्नसालंसि वा' शून्यशालायाम् यत्र शालायां न कोऽपि वसति तस्याम् 'भिन्नगिहंसि वा' भिन्नगृहे वा--भम्नगृहे इत्यर्थः 'भिन्नसालंसि वा' भिन्नशालायां वा भग्नशालायाम् 'कूडागारंसि वा' कूटागारे वा-कूटाकारगृहे 'कोद्वागारंसिवा' कोष्ठागारे वा या दशस्थाने धान्यादिकं स्थापयति तस्य कोष्ठागार इति नाम भवति तस्मिन् कोष्ठागारगृहे कोष्ठागारशालायां च 'उच्चारपासवर्ण परिहवेइ' उच्चारप्रस्रवणं परिष्ठापयति 'परिवते वा साइज्जइ' परिष्ठापयन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभाग् भवति ।। सू०७३॥ सूत्रम्-जे भिक्खू तणगिहंसि वा तणसालंसि वा तुसगिहंसि वा तुससालंसि वा भुसगिर्हसि वा भुससालंसि वा उच्चारपासवणं परिट्ठवेइ परिठवतं वा साइज्जइ ॥ सू०७४ ॥ छाया–यो भिक्षुः तृणगृहे वा तृणशालायां वा तुषगृहे वा तुषशालायां वा भुसगृहे वा भुसशालायां वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥७॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'तणगिहंसि वा' तृणगृहे वा-तृणस्थापनगृहे अथवा तृणनिर्मिते गृहे 'तणसालंसि वा' तृणशालायां वा तृणभृतशालायाम् 'तुसगिहंसि वा' तुषगृहे 'तुससालंसि वा' तुषशालायां वा 'भुसगिहंसि वा' भुसगृहे वा, तत्र गोधूमादीनां स्तम्बः, तस्य चूर्णीकृतोऽवयवः 'भूसा' इतिलोकप्रसिद्धः तस्य संस्थापनस्थानं भुसगृहमिति तस्मिन् भुसगृहे 'भुससालंसि वा' भुसशालायं वा, एतादशस्थानेषु यो भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिदृवेइ' परिष्ठापयति ‘परिहवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ७४ ॥ सूत्रम्-जे भिक्खू जाणगिहंसि वा जाणसालंसि वा जुग्गगिहंसि वा जुग्गसालंसि वा उच्चारपासवणं परिहवेइ परिहवेतं वा साइज्जइ ॥ सू०७५॥ छाया---यो भिक्षुर्यानगृहे वा यानशालायां वा युग्यगृहे वा युग्यशालायां वा उच्चारप्र वणं परिष्ठापर्यात परिष्ठापयन्तं वा स्वदते ।। सू० ७५ ।।। चूर्णी --- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'जाणगिहंसि वा' यानगृहे-रथादिस्थापनगृहे वा 'जाणसालंसि वा' यानशालायां वा 'जुग्गगिहंसि ' युग्यगृहे वा, શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy