________________
निशीथसूत्रे
वा–गृहस्थं श्रावकमश्रावकं वा 'सिप्पं वा' शिल्पं वा - शिल्पकलां वस्त्रादिसंपादनकलामित्यर्थः 'सिलोगं वा' श्लोकं वा - संस्कृतप्राकृतपद्यात्मकं वा काव्यनाटकादिकम् 'अट्ठावयं वा' अष्टापदं वा - अष्टापदमिति द्यूतफलकं पट्टिकारूपम्, यस्योपरि द्यूतं क्रीड्यते, उपचारात्तद्विषयककलां वा, अथवा अष्टापदमिति 'पासा' इति प्रसिद्धम्, तद्विषयां कलाम्, यथा-वयं नो जानीमः, इदं पासकं सुभिक्षदुर्भिक्षादिकं कथयतीत्येवंरूपां कलां वा, 'कक्कडगं वा' कर्कटकं वा कर्क - टकमिति कचवरं सर्ववस्तुसंमिश्रणं, कर्कटमिव कर्कटकं सर्वभावैक्यं सर्ववस्तुभावैक्यमित्यर्थः, एवं कथने उभयथाऽपि दोषापत्तिरापतेदिति । अथवा - कर्कटकं निमित्तशास्त्र सामुद्रिकशास्त्रज्योतिर्विद्यादिसंमिश्रणरूपं वा, 'बुग्गहं वा' व्युदग्रहम् - राजादियुद्धजनितजयपराजयज्ञानरूपां कलाम् 'सलाहं वा' श्लाघां वा - अन्यगुणवर्णनरूपां काव्यकलां वा, 'सलाहकहत्थयं वा' श्लाघकथास्तवं वा श्लाघात्मिकां कथां स्तवं वा, अथवा अपूर्वाभिनवानेक काव्यवर्णनकलां वा यः श्रमणः श्रमणी वा तापसादिकं श्रावकमश्रावकं वा 'सिक्खावे ' शिक्षयति - तद्विषयां शिक्षां ददाति तथा - 'सिक्खावेंतं वा साइज्जइ' शिक्षयन्तं शिल्पकलादीनां शिक्षणं ददतं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः
३१२
भाष्यम् - सिप्पसिलोगाइकलं, सिक्खावर अन्नउत्थियं गिहिणं । सो पावर पच्छित्त, आणाभंगाइरूवं च ॥
छाया - शिल्पश्लोकादिकलां शिक्षयति अन्यतीर्थिकं गृहिणम् । स प्राप्नोति प्रायश्चित्तं आज्ञाभङ्गादिरूपं च ॥
अवचूरि : - प्रकृतसूत्रे शिल्प श्लोकादिकलाम्, आदिपदेन शेषाः एतद्भिन्नाः या अन्याः कलाः अष्टापदादिरूपाः, ताः सर्वा अपि सूचिताः भवन्ति, एताः कलाः शिल्पादिकाः कदाचिदपि श्रमणः तापसादिकं गृहस्थादिकं वा न शिक्षयेत्, यस्तु श्रमणः मोहात्कारणान्तराद वा अन्यतीर्थिकानां तापसादीनां गृहस्थानां श्रावकाणामन्येषां वा पूर्वोक्तकलां शिक्षयति एतत्कलाशिक्षको भवति स श्रमणः श्रमणी वा आज्ञाभङ्गादिदोषरूपं प्रायश्चित्तं प्राप्नोति स प्रायश्चित्तभागी भवतीत्यर्थः ॥ सू० १२॥
सूत्रम् - जे भिक्खु अण्णउत्थियं वा गारत्थियं वा आगाढं वयइ वयंतं वा साइज्जइ || सू० १३ || जे भिक्खू अण्णउत्थियं वा गारत्थियं वा फरुसं वयइ वयंतं वा साइज्जइ ॥ सू० १४ || जे भिक्खू अण्णउत्थियं वा गारत्थियं वा आगाढफरुसं वयइ वयंतं वा साइज्जइ ॥ सू० १५॥
શ્રી નિશીથ સૂત્ર