SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ rvvvv vvvvvv. चूर्णिभाष्यावचूरिः उ० १३ सू० १२ अन्यतीथिकादीनां शिल्पादिकलाशिक्षणनिषेधः ३११ इष्टिकादारसंघातो वा तस्मिन् ‘फलिहंसि वा' परिघे वा, तत्र परिघो नाम अर्गलाकारो लम्बकाष्ठविशेषः, तस्मिन् 'मंचंसि वा' मञ्चे वा काष्ठस्तम्भोपरि निर्मिते खट्वाकारे मञ्चे 'मंडवंसि वा मण्डपे वा, तत्र मण्डपः-काष्ठनिर्मितं निर्मित्तिकं स्थानं तस्मिन् 'मालंसि वा' माले वा, तत्र मालं गृहोपरि द्विभूमिकादि तस्मिन् । 'पासायंसि वा' प्रासादे वा-प्रासादः-जीर्णराजगृहं तस्मिन् 'हम्मतलंसिवा' हर्म्यतले वा, हय जीर्णधनिकजननिवासस्थानम्, तस्मिन् , कीदृशे? इत्याह'दुब्बद्धे' दुर्बद्धे शिथिलबन्धनयुक्ते 'दुण्णिक्खित्ते' दुनिक्षिप्ते-सम्यगनवस्थापिते 'अणिक्कंपे' अनिष्कम्पे-कम्पनादिविशिष्टे अत एव चलाचले अस्थिरे, एतादृशस्कन्धादौ यो भिक्षुः 'ठाणं वा' स्थानं वा कायोत्सर्ग वा 'सेज्जं वा' शय्यां वा शयनीयम् 'मिसेज्जं वा' निषद्यामासनं वा 'णिसीहियं वा' नैषेधिकी वा स्वाध्यायादिकरणम् 'चेएई' चेतयते 'चेएंतं वा साइज्जई' चेतयमानं स्कन्धादिषु अस्थिरादिषु स्थानादिकं कुर्वन्तं श्रमणान्तरं यः श्रमणः श्रमणी वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ अत्राह भाष्यकारःभाष्यम्-थूणा-कुलिय-क्खंधा,-इयं खुजं आहियं च मुत्तेसु । तेसुं ठाणाइकरणा, लब्भेज्जा आणभंगाई ॥ छाया ---स्थूणा-कुउथ-स्कन्धादिकं खु यत् आख्यातं च सूत्रेषु । तेषु स्थानादिकरणात् लमेताज्ञाभङ्गादिकम् ।। अवचूरिः-सूत्रेषु-नवमदशमैकादशेषु स्थूणाकुड्यस्कन्धादिकं यत् यावन्मात्रमाख्यातं कथितं तेषु स्थूणादिषु स्थानेषु स्थानादिकरणात् कायोत्सर्ग-शय्या-निषद्यादि-संपादनात् श्रमणः श्रमणी वा आज्ञाभङ्गादिकान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनालक्षणान् दोषान् लमेत प्राप्नुयात् ॥ सू० ११॥ सूत्रम्--जे भिक्खू अण्णउत्थियं वा गारस्थिय वा सिप्पं वा सिलोगं वा अट्ठावयं वा कक्कडगं वा बुग्गहं वा सलाहं वा सलाहकहत्थयं वा सिक्खावेइ सिक्खावेंतं वा साइज्जइ ।। सू० १२॥ छाया-यो भिक्षुरन्ययूथिक वा गार्हस्थिकं वा शिल्पं वा लोकं वा अष्टापदं वा कर्कटकं वा व्युग्रहं वा ग्लाघं वा प्रलाघकथास्तवं वा शिक्षयति शिक्षयन्तं वा स्वदते ॥ सू० १२॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा' अन्ययूथिकं वा परदर्शनानुयायिनं तापसादिकम् 'गारत्थियं वा गार्हस्थिकं શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy