SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १८० wwwm निशीथसूत्रे चूणीं-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गास्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनवाञ्छया 'कोलावाससि वा' कोलावासे वा, तत्र कोला:घुणाः काष्ठगताः काष्ठक्षतिकारका जीवविशेषाः 'धुण' इति लोकप्रसिद्धाः, तेषां कोलानां य आवासः स्थानं तत्र वा 'दारुए वा जीवपइदिए' दारुके वा जीवप्रतिष्ठिते यस्मिन् काष्ठे जीवा विद्यमाना भवेयुः तादृशमत्कुणादिजीवविशिष्टपीठफल कादिके 'सअंडे' साण्डे पिपीलकाद्यण्डसहिते स्थाने काष्ठे वा 'सपाणे' सप्राणे क्षुद्रद्वीन्द्रियादिप्राणियुक्तस्थाने 'सबीए' सबीजे शाल्यादिसचित्तबीजयुक्तस्थाने 'सहरिए' सहरिते हरितकायसहितस्थाने 'सओसे सावश्याये-सूक्ष्महिमकणसहितस्थाने 'सउत्र्तिग' सउत्तिङ्गे, उत्तिङ्गकाः-भूमौ वर्तुलविवरकारिणो गर्दभमुखाकृतयः कीटविशेषाः, यद्वा कीटिकानगरादयः, तैः सहिते स्थाने 'पणग' पनकः-अङ्करितो अनङ्कुरितो वा पञ्चवर्णानन्तकायविशेषः 'फुलण' इति भाषाप्रसिद्धः 'दगमट्टिय' उदकमृत्तिका सजलपृथिवीकायः 'मक्कडासंताणगंसि' मर्कटसन्तानकः लूताजालम् , तस्मिन् , एतेषु पूर्वोक्तघुणादियुक्तस्थानेषु यः श्रभणः स्त्रियं 'णिसीयावेज्जवा' निषीदयेत्उपवेशनं कारयेत् , 'तुयद्यावेज्ज वा त्ववर्तयेद्वा पार्श्वपरिवर्तनं कारयेसू तथा 'निसीयावेंतं वा' निषीदयन्तम् उपवेशयन्तं वा 'तुयट्टावेंतं वा' त्वरवर्तयन्तं वा शाययन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते । यो भिक्षुमातृग्रामस्य मैथुनेच्छया सूत्रोक्तस्थानेषु स्त्रियमुपवेशयति शाययति वा, उपवेशयन्तं शाययन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥सू०७५॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा णिसीयावेज्ज वा तुयट्टावेज्ज वा णिसीयावेतं वा तुयट्टावेतं वा साइज्जइ ॥ सू०७६॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा परिव्राजकावसथेषु वा निषीदयेद्धा त्वग्वर्तयेद्वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्वदते ॥ सू • ७६ ॥ चूर्णी - 'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छ्या 'आगंतागारेसु वा' आगन्त्रागारेषु वा आगन्तणाम् आगन्तुकानां गमनागमनसमये विश्रामार्थकारितेषु गृहेषु धर्मशालेतिप्रसिद्धेषु वा 'आरा. मागारेसु वा' आरामागारेषु वा क्रीडाकरणाय उपवनगृहेषु 'गाहावइकुलेसु वा' गाथापतिकुलेषु वा-गृहस्थगृहेषु 'परियावसहेषु वा' परिव्राजकावसथेषु वा तापसनिवासस्थानेषु वा 'णिसीयावेज्ज वा' निषीदयेत् वा उववेशयेत् 'तुयट्टावेज्ज वा' त्वग्वर्तयेद्वा शाययेत् 'णिसी यावेंते वा निषीदयन्तं वा 'तुयट्टात वा' त्वग्वर्तयन्तं वा शयनं कारयन्तम् 'साइज्जइ' શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy