________________
मातृग्रामप्रकर
wwwvvAowww
चूर्णिभाष्यावद्रिः उ. ७ सू. ६८-७६
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अणंतरहियाए पुढवीए णिसीयावेज्ज वा तुयद्यावेज्ज वा णिसीयावेतं वा तुयट्टावेंतं वा साइज्जइ ॥सू० ६८॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अनन्तरहितायां पृथियां निषीदयेत् वा त्वग्वर्तयेद्वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्यदते ॥सू० ६८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहणवडियाए' मैथुनप्रति ज्ञया 'अगंतरहियाए पुढवीए' अनन्तरहितायां पृथिव्याम् तत्र अनन्तरहिताया शीतवातादिशौरनुपहतायां सचित्तायाम् , पृथिव्याम् तथा चैतादृशसचित्तभूमौ यो भिक्षुमैथुनसेवनेच्छया अत्र 'स्त्रियं' इति गम्यते ततः स्त्रियमित्यर्थः 'णिसीयावेज्ज वा' निषीदयेद्रा उपवेशयेत् 'तुयद्यावेज्ज वा' त्वग्वर्तयेद्वा-पार्श्वपरिवर्तनं कारयेत् स्वापयेद् वा इत्यर्थः तथा 'णिसीयावेंतं वा' निषीदयन्तं वा उपवेशनं कारयन्तम् 'तुयटावेत वा' त्वरवर्तयन्तं वा पार्श्वपरिवर्तनं कारयन्तम् 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ६८॥
एवं पूर्वोक्तसूत्रक्रमेण यो भिक्षुर्मातृप्रामस्य मैथुनेच्छया स्त्रियं 'ससणिद्धाए पुढवीए' सस्निग्धायां-सचित्तजलेन ईषदार्टायां पृथिव्याम् ॥सू० ६९॥ ससरक्खाए पुढवीए' सरजस्कायां सचित्तरजोऽवगुण्ठितायां पृथिव्याम् ॥सू० ७०॥ ‘मट्टियाकडाए पुढवीए' मृत्तिकाकृतायां सचित्त मृत्तिकानिर्मितायां पृथिव्याम् ॥सू० ७१।। 'चित्तमंताए पुढवीए' चित्तवत्यां स्वभावतः-सचित्तायां खनिरूपायां पृथिव्याम् ।।सू० ७२।। 'चित्तमंताए सिलाए' चित्तवत्यां सचित्तायां खनितः सद्यो निष्कासितायां शिलायाम् ॥सू० ७३॥ 'चित्तमंताए लेलुए' चित्तवति सचित्ते लेलुके-लोष्टरूपे पृथिवीखण्डे, एतेषु पूर्वप्रदर्शितेषु स्थानेषु स्त्रियम्, 'निसीयावेज्ज वा निषीदयेत् वा उपवेशयेत् 'तुयट्टावेज्ज वा' त्वम्वर्तयेत् वा पार्श्वपरिवर्तनं कारयेत् शाययेत् वा तत्र शयनं कारयेद्वा, एवं कारयन्तमन्यं वाऽनुमोदयेत् स प्रायश्चित्तभागी भवति ॥ सू० ७४ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए कोलावासंसि वा दारुए वा जावपइट्ठिए, सअंडे सपाणे सबीए सहरिए सओसे सउदए सउत्तिंग-पणग-दगमट्टिय-मक्काडासंताणगंसि णिसीयावेज्ज वा तुयट्टावेज्ज वा णिसीयावेतं वा तुयट्टावेतं वा साइज्जइ ॥ सू०७५ ॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञा कोलावासे वा दारुके वा जीवप्रतिष्ठिते साण्डे सप्राणे सबीजे सहरिते सावश्याये सोदके सोत्तिङ्गपनकदकमृत्तिकामर्कटसन्तानके निषीदयेत् वा त्वग्वर्तयेद्वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्वदते ॥स्० ७५ ।।
શ્રી નિશીથ સૂત્ર